ज्वरनाशकस्तोत्रः

।। अथ ज्वरनाशकस्तोत्रः।। ज्वर उवाच।। नमामि त्वानंतशक्तिं परेशं सर्वात्मानं केवलं ज्ञप्तिमात्रम्‌। विश्वोत्पत्तिस्थानसंरोधहेतुं यत्‌ तद्‌ ब्रह्म ब्रह्मलिंगं प्रशांतम्‌।। कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः। तत्संघातो बीजरोहप्रवाहस्‌ त्वन्मायैषा तन्निषेधं प्रपद्ये।। नानाभावैर्‌ लीलयैवोपपन्नैर्‌ देवान्‌ साधूँल्लोकसेतून्‌ बिभर्षि। हंस्युन्मार्गान्‌ हिंसया वर्तमानान्‌ जन्मैतत्‌ ते भारहाराय भूमेः।। तप्तोऽहं ते तेजसा दुःसहेन शांतोग्रेणात्युल्बणेन ज्वरेण। तावत्‌ तापो देहिनां तेंऽघ्रिमूलं नो…