श्रीविष्णो: षोडशनामस्तोत्रम्

श्रीविष्णो: षोडशनामस्तोत्रम्| श्रीगणेशाय नमः|| औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम्| शयने पद्मनाभं च विवाहे च प्रजापतिम्||१|| युध्दे चक्रधरं देवं प्रवासे च त्रिविक्रमम्| नारायणं तनुत्यागे श्रीधरं प्रियसंगमे||२|| दु:स्वप्ने स्मर गोविन्दं संकटे मधुसुदनम्| कानने नारसिंह च पावके जलशायिनम्||३|| जलमध्ये वराहं च पर्वते रघुनन्दनम्| गमने वामनं चैव सर्वकार्येषु माधवम्||४|| षोडशैतानि नामानि प्रातरुत्थाय यः पठेत्| सर्वपापविनिर्मुक्तो विष्णुलोके महीयते||५|| इति श्रीविष्णो:…