श्रीज्ञानेश्वरस्तोत्रम्

श्रीज्ञानेश्वरस्तोत्रम् – पू. अनंतराव आठवले यांनी रचलेले. सद्गुरुं सच्चिदानन्दं केवलं करुणाकरम् | ज्ञानयोगेश्वरं वन्दे ज्ञानदेवं पुनः पुनः || १ || वाङ्मनोबुद्धिभावानामतीतं परमेश्वरम् | निष्कलं सगुणं वन्दे ज्ञानदेवं पुनः पुनः || २ || निर्मलं सदयं शांतं प्रणताखिलमङ्लम् | ज्ञानैकरूपिणं वन्दे ज्ञानदेवं पुनः पुनः || ३ || भक्तिकल्पतरोर्मूलं बीजं साधनसम्पदः | सर्वलोकहितं वन्दे ज्ञानदेवं पुनः पुनः ||…