Aghanashaka Gayatri Stotra

॥ अघनाशकगायत्रीस्तोत्र ॥ आदिशक्‍ते जगन्मातर्भक्‍तानुग्रहकारिणि । सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नमोऽस्तु ते ॥ त्वमेव सन्ध्या गायत्री सावित्रि च सरस्वती । ब्राह्मी च वैष्णवी रौद्री रक्‍ता श्वेता सितेतरा ॥ प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः । वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥ हंसस्था गरुडारूढा तथा वृषभवाहिनी । ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥ यजुर्वेदं पठन्ती च…