Angaraka Stotram

॥ अङ्गारकस्तोत्रम् ॥ अस्य श्री अङ्गारकस्तोत्रस्य । विरूपाङ्गिरस ऋषिः । अग्निर्देवता । गायत्री छन्दः । भौमप्रीत्यर्थं जपे विनियोगः । अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः । कुमारो मङ्गलो भौमो महाकायो धनप्रदः ॥ १॥ ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः । विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ॥ २॥ सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः । लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ॥ ३॥ रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः ।…