Shree DhanLakshmi Stotram

॥ धनलक्ष्मीस्तोत्रम् ॥Shree DhanLakshmi Stotram धनदा उवाच देवी देवमुपागम्य नीलकण्ठं मम प्रियम् । कृपया पार्वती प्राह शंकरं करुणाकरम् ॥ देव्युवाच ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् ।  दरिद्र दलनोपायमंजसैव धनप्रदम् ॥ शिव उवाच पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः । उचितं जगदम्बासि तव भूतानुकम्पया ॥ स सीतं सानुजं रामं सांजनेयं सहानुगम् । प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् ॥ धनदं श्रद्धानानां…