Mahadeva Krutha Rama Stotram

॥ श्रीरामस्तोत्रं श्रीमहादेवकृतम् ॥ श्री गणेशाय नमः । श्रीमहादेव उवाचः । नमोऽस्तु रामाय सशक्तिकाय नीलोत्पलश्यामलकोमलाय । किरीटहाराङ्गदभूषणाय सिंहासनस्थाय महाप्रभाय ॥ १॥ त्वमादिमध्यान्तविहीन एकः सृजस्यवस्यत्सि च लोकजातम् । स्वमायया तेन न लिप्यसे त्वं यत्स्वे मुखेऽजस्ररतोऽनवद्यः ॥ २॥ लीलां विधत्से गुणसंवृतस्त्वं प्रपन्नभक्तानुविधानहेतोः । नानावतारैः सुरमानुषाद्यैः प्रतीयसे ज्ञानिभिरेव नित्यम् ॥ ३॥ स्वांशेन लोकं सकलं विधाय तं बिभर्षि च…