Hanuman – Anjaney Ashtottar Shatanama Stotra

॥ श्रीमदाञ्जनेयाष्टोत्तरशतनामस्तोत्रम् कालिकारहस्यतः ॥ आञ्जनेयो महावीरो हनुमान्मारुतात्मजः । तत्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥ १ ॥ अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः । सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥ २ ॥ परविद्यापरीहारः परशौर्यविनाशनः । परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः ॥ ३ ॥ सर्वग्रहविनाशी च भीमसेनसहायकृत् । सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥ ४ ॥ पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरूपवान् । सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मकस्तथा ॥ ५ ॥ कपीश्वरो महाकायः सर्वरोगहरः प्रभुः । बलसिद्धिकरः…