Hanuman, SHRIMAD HANUMAN VANDANAM

॥ श्रीहनुमद्वन्दनम् ॥
अञ्जनानन्दनं वीरं जानकीशोकनाशनम् ।
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ १ ॥
अञ्जनीगर्भसम्भूत कपीन्द्रसचिवोत्तम ।
रामप्रिय नमस्तुभ्यं हनूमन् रक्ष सर्वदा ॥ २ ॥
अतुलितबलधामं स्वर्णशैलाभदेहं
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।
सकलगुणनिधानं वानराणामधीशं
रघुपतिप्रियभक्तं वातजातं नमामि ॥ ३ ॥
अपराजित पिङ्गाक्ष नमस्ते राजपूजित ।
दीने मयि दयां कृत्वा मम दुःखं विनाशय ॥ ४ ॥
अशेषलङ्कापतिसैन्यहन्ता श्रीरामसेवाचरणैककर्ता ।
अनेकदुःखाहतलोकगोप्ता त्वसौ हनूमान्मम सौख्यकर्ता ॥ ५ ॥
आञ्जनेयं पाटलास्यं स्वर्णाद्रिसमविग्रहम् ।
पारिजातद्रुमूलस्थं वन्दे साधकनन्दनम् ॥ ६ ॥
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् ।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ ७ ॥
आधिव्याधिमहामारिग्रहपीडापहारिणे ।
प्राणापहर्त्रे दैत्यानां रामप्राणात्मने नमः ॥ ८ ॥
आपन्नाखिललोकार्तिहारिणे श्रीहनूमते ।
अकस्मादागतोत्पातनाशनाय नमोऽस्तु ते ॥ ९ ॥
उद्यत्कोट्यर्कसङ्काशं जगत्प्रक्षोभहारकम् ।
श्रीरामाङ्घ्रिध्याननिष्ठं सुग्रीवप्रमुखार्चितम् ।
वित्रासयन्तं नादेन राक्षसान् मारुतिं भजे ॥ १० ॥
उद्यदादित्यसङ्काशमुदारभुजविक्रमम् ।
कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ ११ ॥
श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् ।
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ १२ ॥
उद्यन्मार्तण्डकोटिप्रकटरुचियुतं चारुवीरासनस्थं
मौञ्जीयज्ञोपवीतारुणरुचिरशिखाशोभनं कुण्डलाङ्कम् ।
भक्तानामिष्टदं तं प्रणतमुनिजनं मेघनादप्रमोदं
वन्दे देवं विधेयं प्लवगकुलपतिं गोष्पदीभूतवार्धिम् ॥ १३ ॥
उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ १४ ॥
कदापि शुभ्रैर्वरचामरैः प्रभुं गायन् गुणान् वीजयति स्थितोऽग्रतः ।
कदाप्युपश्लोकयति स्वनिर्मितैः स्तवैः शुभैः श्रीहनुमान् कृताञ्जलिः ॥ १५ ॥
करात्तशैलशस्त्राय द्रुमशस्त्राय ते नमः ।
बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च ॥ १६ ॥
कारागृहे प्रयाणे च सङ्ग्रामे देशविप्लवे ।
स्मरन्ति त्वां हनूमन्तं तेषां नास्ति विपत्तदा ॥ १७ ॥
कृतक्रोधे यस्मिन्नमरनगरी मङ्गलरवा
नवातङ्का लङ्का समजनि वनं वृश्चति सति ।
सदा सीताकान्तप्रणतिमतिविख्यातमहिमा
हनूमानव्यान्नः कपिकुलशिरोमण्डनमणिः ॥ १८ ॥
गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् । १९
जानुस्थवामबाहुं च ज्ञानमुद्रापरं हरिम् ।
अध्यात्मचित्तमासीनं कदलीवनमध्यगम् ।
बालार्ककोटिप्रतिमं वन्दे ज्ञानप्रदं हरिम् ॥ २० ॥
ज्वलत्काञ्चनवर्णाय दीर्घलाङ्गूलधारिणे ।
सौमित्रिजयदात्रे च रामदूताय ते नमः ॥ २१ ॥
तप्तचामीकरनिभं भीघ्नं संविहिताञ्जलिम् ।
चलत्कुण्डलदीप्तास्यं पद्माक्षं मारुतिं भजे ॥ २२ ॥
द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् ।
मौञ्जीकौपीनसहितं तं वन्दे रामसेवकम् ॥ २३ ॥
दहनतप्तसुवर्णसमप्रभं भयहरं हृदये विहिताञ्जलिम् ।
श्रवणकुण्डलशोभिमुखाम्बुजं नमत वानरराजमिहाद्भुतम् ॥ २४ ॥
नखायुधाय भीमाय दन्तायुधधराय च ।
विहङ्गाय च शर्वाय वज्रदेहाय ते नमः ॥ २५ ॥
नादबिन्दुकलातीतं उत्पत्तिस्थितिवर्जितम् ।
साक्षादीश्वरसद्रूपं हनूमन्तं भजाम्यहम् ॥ २६ ॥
पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं शशाङ्कशेखरं कपिराजवर्यम् ।
पीताम्बरादिमुकुटैरुपशोभिताङ्गं पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ २७ ॥
पद्मरागमणिकुण्डलत्विषा पाटलीकृतकपोलमण्डलम् ।
दिव्यहेमकदलीवनान्तरे भावयामि पवमाननन्दनम् ॥ २८ ॥
प्रतप्तस्वर्णवर्णाभं संरक्तारुणलोचनम् ।
सुग्रीवादियुतं वन्दे पीताम्बरसमावृतम् ।
गोष्पदीकृतवारीशं (राशिं) पुच्छमस्तकमीश्वरम्
ज्ञानमुद्रां च बिभ्राणं सर्वालङ्कारभूषितम् ॥ २९ ॥
बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता ।
अजाड्यं वाक्पटुत्वं च हनूमत्स्मरणाद्भवेत् ॥ ३० ॥
भान्विन्दूचरणारविन्दयुगलं कौपीनमौञ्जीधरं
काञ्चिश्रेणिधरं दुकूलवसनं यज्ञोपवीताजिनम् ।
हस्ताभ्यां धृतपुस्तकं च विलसद्धारावलिं कुण्डलं
खेचालं विशिखं प्रसन्नवदनं श्रीवायुपुत्रं भजे ॥ ३१ ॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ ३२ ॥
मरुत्सुतं रामपदारविन्दवन्दारुबृन्दारकमाशु वन्दे ।
धीशक्तिभक्तिद्युतिसिद्धयो यं कान्तं स्वकान्ता इव कामयन्ते ॥ ३३ ॥
मर्कटेश महोत्साह सर्वशत्रुहरोत्तम ।
शत्रुं सम्हर मां रक्ष श्रीमन्नापद उद्धर ॥ ३४ ॥
मर्कटेश महोत्साह सर्वातङ्कनिवारक ।
अरीन्सम्हर मां रक्ष सुखं दापय मे प्रभो ॥ ३५ ॥
महाशैलं समुत्पाट्य धावन्तं रावणं प्रति ।
तिष्ठ तिष्ठ रणे दुष्ट घोररावं समुच्चरन् ॥ ३६ ॥
लाक्षारसारुणं वन्दे कालान्तकयमोपमम् ।
ज्वलदग्निलसन्नेत्रं सूर्यकोटिसमप्रभम् ।
अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणम् ॥ ३७ ॥
मारुतिं वीरवज्राङ्गं भक्तरक्षणदीक्षितम् ।
हनूमन्तं सदा वन्दे राममन्त्रप्रचारकम् ॥ ३८ ॥
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् ।
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ ३९ ॥
यो वारांनिधिमल्पपल्वलमिवोल्लङ्घ्य प्रतापान्वितो
वैदेहीघनशोकवह्निहरणो वैकुण्ठभक्तप्रियः ।
अक्षाद्यर्जितराक्षसेश्वरमहादर्पापहारी रणे
सोऽयं वानरपुङ्गवोऽवतु सदा चास्मान् समीरात्मजः ॥ ४० ॥
राजद्वारि बिलद्वारि प्रवेशे भूतसङ्कुले ।
गजसिम्हमहाव्याघ्रचौरभीषणकानने । ४१
शरणाय शरण्याय वातात्मज नमोस्तु ते ।
नमः प्लवगसैन्यानां प्राणभूतात्मने नमः ॥ ४२ ॥
रामेष्टं करुणापूर्णं हनूमन्तं भयापहम् ।
शत्रुनाशकरं भीमं सर्वाभीष्टफलप्रदम् ॥ ४३ ॥
प्रदोषे त्वां प्रभाते वा ये स्मरन्त्यञ्जनासुतम् ।
अर्थसिद्धिं यशःपूर्तिं प्राप्नुवन्ति न संशयः ॥ ४४ ॥
लाक्षारसारुणं वन्दे कालान्तकयमोपमम् ।
ज्वलदग्निलसन्नेत्रं सूर्यकोटिसमप्रभम् ।
अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणम् ॥ ४५ ॥
वज्रदेहाय कालाग्निरुद्रायामिततेजसे ।
ब्रह्मास्त्रस्तम्भनायास्मै नमः श्रीरुद्रमूर्तये ॥ ४६ ॥
वज्राङ्गं पिङ्गकेशाढ्यं स्वर्णकुण्डलमण्डितम् ।
नियुद्धमुपसङ्क्रम्य पारावारपराक्रमम् ॥ ४७ ॥
वामहस्तगदायुक्तं पाशहस्तकमण्डलुम् ।
उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तये ॥ ४८ ॥
वज्राङ्गं पद्मनेत्रं कनकमयलसत्कुण्डलाक्रान्तगण्डं
दम्भोलिस्तम्भसारप्रहरणसुवशीभूतरक्षोऽधिनाथम् ।
उद्यल्लाङ्गूलसप्ताचलविचलकरं भीममूर्तिं कपीन्द्रं
वन्दे तं रामचन्द्रप्रमुखदृढतरं सत्प्रसारं प्रसन्नम् ॥ ४९ ॥
वन्दे बालदिवाकरद्युतिनिभं देवारिदर्पापहं
देवेन्द्रप्रमुखैःप्रशस्तयशसं देदीप्यमानं रुचा ।
सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥ ५० ॥
वन्दे रणे हनुमन्तं कपिकोटिसमन्वितम् ।
धावन्तं रावणं जेतुं दृष्ट्वा सत्वरमुत्थितम् ॥ ५१ ॥
लक्ष्मणं च महावीरं पतितं रणभूतले ।
गुरुं च क्रोधमुत्पाद्य गृहीत्वा गुरुपर्वतम् ॥ ५२ ॥
हाहाकारैः सदर्पैश्च कम्पयन्तं जगत्त्रयम् ।
ब्रह्माण्डं स समावाप्य कृत्वा भीमकलेवरम् ॥ ५३ ॥
वन्दे वानरसिम्हखगराट् क्रोडाश्ववक्त्रान्वितं
दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।
हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रीन् हलं
खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ॥ ५४ ॥
वामहस्ते महावृक्षं दशास्यकरखण्डनम् ।
उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तये ॥ ५५ ॥
वामे करे वैरिभिदं वहन्तं शैलं परे शृङ्खलहारटङ्कम् ।
दधानमच्छच्छवियज्ञसूत्रं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ ५६ ॥
वामे जानुनि वामबाहुमपरं तं ज्ञानमुद्रायुतं
हृद्देशे कलयन् वृतो मुनिगणैरध्यात्मदत्तेक्षणः ।
आसीनः कदलीवने मणिमये बालार्ककोटिप्रभो
ध्यायन् ब्रह्म परं करोतु मनसः सिद्धिं हनूमान्मम ॥ ५७ ॥
वामे शैलं वैरिभिदं विशुद्धं टङ्कमन्यतः ।
दधानं स्वर्णवर्णं च वन्दे कुण्डलिनं हरिम् ॥ ५८ ॥
सदा राम रामेति नामामृतं तं सदा राममानन्दनिष्यन्दकन्दम् ।
पिबन्तं नमन्तं सुदन्तं हसन्तं हनूमन्तमन्तर्भजे तं नितान्तम् ॥ ५९ ॥
सपीतकौपीनमुदञ्चिताङ्गुलिम् समुज्ज्वलन्मौञ्ज्यजिनोपवीतिनम् ।
सकुण्डलं लम्बशिखासमावृतं तमाञ्जनेयं शरणं प्रपद्ये ॥ ६० ॥
सर्वारिष्टनिवारकं शुभकरं पिङ्गाक्षमक्षापहं
सीतान्वेषणतत्परं कपिवरं कोटीन्दुसूर्यप्रभम् ।
लङ्काद्वीपभयङ्करं सकलदं सुग्रीवसम्मानितं
देवेन्द्रादिसमस्तदेवविनुतं काकुत्स्थदूतं भजे ॥ ६१ ॥
संसारसागरावर्तकर्तव्यभ्रान्तचेतसाम् ।
शरणागतमर्त्यानां शरण्याय नमोऽस्तु ते ॥ ६२ ॥
सीतारामपदाम्बुजे मधुपवद्यन्मानसं लीयते
सीतारामगुणावली निशि दिवा यज्जिह्वया पीयते ।
सीतारामविचित्ररूपमनिशं यच्चक्षुषोर्भूषणं
सीतारामसुनामधामनिरतं तं सद्गुरुं तं भजे ॥ ६३ ॥
सीतावियुक्तश्रीरामशोकदुःखभयापह ।
तापत्रितयसम्हारिन्नाञ्जनेय नमोऽस्तु ते ॥ ६४ ॥
सीताशीर्वादसंपन्न समस्तावयवाक्षत ।
लोललाङ्गूलपातेन ममारातीन्निवारय ॥ ६५ ॥
स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् ।
कुण्डलद्वयसंशोभिमुखाम्बुजमहं भजे ॥ ६६ ॥
स्वानन्दहेतोर्भजतां जनानां मग्नः सदा रामकथासुधायाम् ।
असाविदानीं च निषेवमाणो रामं पतिं किम्पुरुषे किलास्ते ॥ ६७ ॥
हनुमन्तं महावीरं वायुतुल्यपराक्रमम् ।
ममाभीष्टार्थसिद्धयर्थं प्रणमामि मुहुर्मुहुः ॥ ६८ ॥
हनूमान् रामपादाब्जसङ्गी वर्णिवरः शुचिः ।
सञ्जीवनोपहर्ता मे दीर्घमायुर्ददात्विह ॥ ६९ ॥

From Hanumat stuti manjari