Nav Durga Stotram

।। नवदुर्गास्तोत्रम् ।। Nav Durga Stotram

सर्वेऽत्र कवयः सन्तु
सर्वे सन्तु च लेखकाः ।
गद्यपद्यमाध्यमेन 
सर्वैः स्तूयेत शारदा ।।1।।

धान्यदे हर्षदे देवि
कृषकानन्ददायिनि।
सद्यः स्वहन्यमानेषु
प्रसन्ना भव सर्वदे।।2।।

सतीनाम्नी शम्भुपत्नी
पार्वती साऽन्यजन्मनि ।
नमामस्तां शैलपुत्रीं
शारदीयमहोत्सवे ।।3।।

अपर्णा ध्यानमग्ना या
कठोरं तापसङ्करी ।
ब्रह्मणा (तपसा) शाङ्करी जाता
नमस्ते ब्रह्मचारिणि ।।4।।

मनःशान्तिकल्याणसौख्यादिसर्वं
ददातु क्षमां सिंहपृष्ठासने त्वम् ।
शशीवास्ति कान्तिश्च घण्टेव नादो
नमः स्वस्तिदे कान्तिदे चन्द्रघण्टे ।।5।।

नमः कालरूपे सुपाहि त्रिलोकान्
धनुःशङ्खचक्रादिशस्त्रान् करेषु ।
त्वया नाशिता मे विपन्ना ह्यवस्था
नमः स्वस्तिदे कान्तिदे चन्द्रघण्टे ।।6।।

यया ब्रह्माण्डमुत्पन्नं
स्मितहासेन केवलम् ।
आद्यशक्तिश्च विख्याता
कूष्माण्डायै नमो नमः ।।7।।

सिंहासनाष्टबाहुर्या
सूर्यमण्डलवासिनी ।
सूर्यतेजोधारिणी या
कूष्माण्डायै नमो नमः ।।8।।

स्कन्दमाता शरण्या या
चतुर्बाहुसमन्विता ।
पद्मासना पद्महस्ता
मोक्षमार्गप्रदायिनी ।।9।।

महिषासुरनाशाय
कात्यायनेन पूजिता ।
सिंहारूढासिहस्ता या
कात्यायनि नमोऽस्तु ते ।।10।।

नमः कृष्णवर्णे नमो मुक्तकेशे
भयंकारिणी त्वं शुभंदायिनी त्वम्।
नमो भूतप्रेतादिभीतत्रिनेत्रे
नमः कालरात्र्यै जगत्त्वं सुपाहि।।11।।

महाशैलजा या महादेवजाया
महाश्वेतपद्मा महाश्वेतवर्णा ।
महाशान्तशीला महागौरवी या
महाशूलहस्ते मही रक्षणीया ।।12।।

शिवश्चाष्टसिद्धिंगतो ध्यानकाले
तवैव प्रसादेन साऽर्धाङ्गशोभा ।
मनोकामनाः पूर्णकर्त्री च भर्त्री
सदा त्वां नुमो हे सुखंसिद्धिदात्रि ।।13।।

।। इति श्रीहरिविरचितं नवदुर्गास्तोत्रं सम्पूर्णम् ।।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *