|

Srinivas Ramanujan Nibandh in Sanskrit – Essay in Sanskrit –श्रीनिवासरामानुजन् संस्कृत भाषा निबंध

👏 श्रीनिवासरामानुजन् 👏

श्रीनिवासः रामानुजन् (१८८७ – १९२० ) अतीव प्रसिद्धः महान् गणितज्ञः आसीत् । सः आधुनिकयुगस्य महानतमगणितज्ञेषु गण्यते। स गणितशास्त्रे न तथा विशेषप्रशिक्षणं प्राप्तवान् तथापि विश्लेषणं तथा संख्यासिध्दान्तक्षेत्रे अस्य महत्वपूर्णं योगदानमासीत्। विलक्षणप्रतिभासंपन्नः रामानुजः न केवलं गणितक्षेत्रे अभूतपूर्वम् आविष्कारः कृतः अपितु भारताय अतुलनीयं गौरवं प्रदत्तः।

      📖  जीवनम् 

सः बाल्यादेव विलक्षणः प्रतिभासंपन्नः आसीत्। स स्वयमेव गणितम् अधीतवान्। स्वजीवने गणितस्य ३८८४ प्रमेयानां संकलनं कृतम्। एतेषु अधिकांशाः प्रमेयाः सिध्दीकृताः। सः गणितस्य सहजज्ञानं तथा बीजगणितस्य प्रकलनस्य अद्वितीयप्रतिभाबलेन मौलिकान् अपारम्परिकान् परिणामान् आविष्कृतवान् येषां अद्यापि शोधकार्यं प्रचलन् अस्ति।तमिळनाडुराज्यस्य ईरोडमण्डले अजायत। द्वादशवयसि त्रिकोनमितिं सम्पूर्णतया अवगम्य अस्मिन् विषये स्वाभिप्रायान्, आविष्कारादिकञ्च निरूप्य शिक्षकान् अपि आश्चर्यचकितान् अकारि। १८९८ तमे संवत्सरे कुम्भकोणस्थ प्रौढशालां प्रविष्टवान् आसीत्। गणीते सम्पूर्णाङ्कान् प्राप्नोतिस्म। अन्येषु विषयेषु अस्य आसक्तिः नासीत्। अतः अयं विश्वविद्यालये अधिकवर्षाणि नासीत् इति। भारतीय शोधपत्रिकासु सः स्वशोधप्रबन्धान् प्रकटितवान्। समनन्तरमेव युरोपदेशस्य केचन गणीतज्ञाः अस्य विषये आसक्तिं प्रदर्शितवन्तः।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *