रक्षाबन्धनम्~
रक्षाबंधनस्य पर्व श्रावणमासस्य पूर्णिमायां प्रतिवर्षम् आमान्यते। श्रावणमासस्य पूर्णिमायामायोज्यमानं पर्व इदं श्रावणीपर्व इति नाम्ना अपि ज्ञायते। प्राचीनकाले आश्रमवासिनः ऋषयः मुनयश्च श्रावणमासे स्वाध्यायं यज्ञादिकं च कुर्वन्ति स्म। पूर्णिमायाः दिवसे मासयज्ञस्य पूर्णाहुतिः तथा च तर्पणकर्म भवति स्म । साकमेव अस्मिन् अवसरे ब्रह्मचारिभिः नूतनानि यज्ञोपवीतानि धार्यन्ते । यज्ञान्ते रक्षासूत्रमपि गुरुभिः बध्यते स्म। गुरुजनाः अस्मात् दिवसादेव शिक्षासत्रस्यापि समारम्भं कृतवन्तः। गुरवः आशीर्वादरूपेण पीतवर्णस्य रक्षासूत्रमपि अभिमन्त्र्य ब्रह्मचारिणां हस्ते बध्नन्ति स्म। एतस्मात् कारणादेव भारते अयमुत्सवः श्रावणीपर्व , ऋषितर्पणं , उपाकर्म, रक्षाबंधनमिति नामभिरपि ज्ञायते। हिन्दीभाषायाः राखी इति शब्दः संस्कृतभाषाया रक्षा इति शब्देन गृह्यते। बन्धन इत्यस्य आशयः संस्कृतशब्दस्य बन्धनमिति शब्दादेवास्ति। एवं रक्षाबंधनमिति तत्सूत्रं स्यात् यद्यस्य हस्ते तत्सूत्रं (राखी )बध्नीयात् तत्पुनः सः जनस्तस्य बन्धनकर्तुः रक्षायै सन्नद्धो भवेत् । वर्तमानसमये अस्मिन् पर्वणि भगिन्यः स्वभ्रातुः हस्ते रक्षासूत्रं बध्नन्ति मिष्टान्नं च खादयन्ति। भ्रातारश्च यथायोग्यं श्रद्धापूर्वकं ताभ्यः स्वभगिनीभ्यः वस्त्रादि- उपहारान् दत्त्वा तासां स्वागतं सत्कारं च कुर्वन्ति। वस्तुतः उत्सवोऽयं भ्रातृणां भगिनीनां च प्रेम्णः उल्लासस्य च प्रतीको (प्रतीकं ) वर्तते।