Vishwakarma Nibandh in Sanskrit

🌞 श्री विश्वकर्मा प्राकट्योत्सव: 🌞

भारतदेशे विश्वकर्मवंशीयाः बहवः शिल्पिनः सन्ति । देवशिल्पी विश्वकर्मा रामायण महाभारतपुराणेषु च विख्यातः वास्तुशिल्पकारः । विश्वकर्मा भारतीयशिल्पिनां स्फूर्तिदायकः अस्ति । विश्वकर्मा प्रभासस्य सुतः । अस्य माता बृहस्पतेः सुता ब्रह्मवदिनी । बाल्यादेव विश्वकर्मणः वास्तुनिर्माणाभिलाषः आसीत् । एतदर्थं बहु अध्ययनं कृतवान् । विश्वकर्मा परशिवस्य साक्षात्कारेण अनुग्रहेण च स्थापत्य विद्यां प्राप्तवान् । अनन्तरं देवस्थपतिः इति प्रसिध्दः अभवत् ।

पुराणेषु विश्वकर्मणः सृष्टिविषये बहुधा ज्ञातुं शक्यमस्ति । महातन्त्रज्ञः देवशिल्पी विश्वकर्मा काशीनगरे श्रीविश्वनाथमन्दिरं निर्मितवान् । यज्ञमण्डपनिर्माणकार्ये सदा व्यस्तः आसीत् । अनेकदेवाः एतं भवननिर्माणार्थं प्रार्थितवन्तः । प्राचीनभारते प्रसिध्देषु अनेकनगरेषु विश्वकर्मणः कार्यं वयं पश्यामः ।

श्रीकृष्णस्य द्वारकापुरिं पाण्डवानां कृते इन्द्रप्रस्थनगरं, कुबेराय लङ्कानगरं तथा अलकापट्टणं विश्वकर्मा एव निर्मितवान् । विश्वकर्मा अनेकविशेषवस्तूनां निर्माणमपि कृतवान् पाण्डवानाम् इन्द्रप्रस्थे स्थितानि भव्यभवनानि अतीव सुन्दराणि आश्चर्यकराणि आसन् । तेनैव दुर्योधनः दुखितः अभवत् । पाण्डवानां देषाय एतानि भवनानि पाण्डवानां वैभवोऽपि कारणानि अभवन् ।

विविधवादनानि आयुधानि, शिवधनुलुः, इन्द्रस्य वज्रायुधं परशुरामस्य वैष्णवधनुः कुबेरस्य पुष्पकविमानम् इत्यादिवस्तूनि विश्वकर्मणः सृष्टेः उल्लेखः प्राप्यते ।

भारतदेशे विश्वकर्मजनाः कारुशिल्पं, वास्तुनिर्माणं, मूर्तिशिल्पं, शिल्पमूर्ति, लोहमूर्तिः इत्यादि निर्माणे आसक्ताः सन्ति । ते सर्वत्र प्राचीनसूत्राणामेव उपयोगं कुर्वन्ति । आधुनिककाले तन्त्रज्ञानक्षेत्रे महत् साधनं कृतमस्ति । अत्यन्तसुन्दरतया मूर्तिनिर्माणम् इदानीं कुर्वन्ति । एवं विश्वकर्मदिनाचरणेन भारतीय कुशलकर्मिणां स्मरणं, तेषां कृतीनां दर्शनं, वस्तुप्रदर्शनम्, इत्यादि आयोजयन्ति । एतेन मानवीयकलात्मकतायाः दर्शनं प्रत्यक्षं भवति ।

Leave a Comment

Dear Visitor,

We appreciate your support for our website. To continue providing you with free content, we rely on advertising revenue. However, it seems that you have an ad blocker enabled.

Please consider disabling your ad blocker for our site. Your support through ads helps us keep our content accessible to everyone. If you have any concerns about the ads you see, please let us know, and we’ll do our best to ensure a positive browsing experience.

Thank you for understanding and supporting our site.

Please disable your adblocker or whitelist this site!