आरोग्यम् (Health) in Sanskrit and English

Basics

  आरोग्यम् (Health)

मम आरोग्यं समीचीनं नास्ति । = I am not well.

Young woman having an ayurvedic shirodhara treatment.

महती पादवेदना । = Terrible leg pain.

सामान्यतः शिरोवेदना तदा तदा आगच्छति । = Generally I get headache now and then.

किञ्चित् ज्वरः इव । = Feel a little feverish…

वैद्यं पश्यतु । = Consult a doctor.

मम वमनशङ्का । = I feel like vomitting.

वैद्यस्य निर्देशनं स्वीकरोतु । = Get a doctor’s advice.

किमर्थं कण्ठः अवरुद्धः ? = Why is there the blocking of the throat ?

अहं अतीव श्रान्तः । = I am very tired.

तस्य आरोग्यं कथं अस्ति ? = How is his health ?

अद्य किञ्चित् उत्तमा (देहस्थितिः ) । = A bit better today.

प्रातः आरभ्य लघु शिरोवेदना । = Slight head-ache since morning.

आरोग्यं तावत् सम्यक् नास्ति । = Somehow, my health is not good.

वैद्यं कदा दृष्टवान् ? = When did you see the doctor last ?

उत्साहः एव नास्ति भोः । = Don’t feel active, you know.

ह्यः तु स्वस्थः आसीत् । = He was all right yesterday.

किं अद्य अहं भोजनं करोमि वा ? = Shall I have my meals today ?

अद्य ज्वरः कथं अस्ति ? = How is the fever today ?

यथावत् । = As usual.

तदा तदा उदरवेदना पीडयति किल ? = You get stomach-ache now and then, don’t you ?

ज्वरपीडितः वा? कदा आरभ्य ? = Fever ? Since when ?

अय्यो! रक्तं स्रवति ! = Oh! Blood is coming out.

अपघाते सः जीवितः इत्येव विशेषः । = It is a miracle, he survived the accident.

सः चिकित्सालये प्रवेशितः । = He is admitted to the hospital.

मम शिरः भ्रमति इव । = I feel giddy.

समयः (Time) 

कः समयः ? = What is the time?

सपादचतुर्वादनम् । = A quarter past four.

द्विवादने अवश्यं गन्तव्यं अस्ति । = I must leave at 2.

त्रिवादने एकं यानं अस्ति । = There is a bus at three.

पादोन षड्वादने भवान् मिलति वा ? = Will you meet at a quarter to six ?

सार्धपञ्चवादने अहं गृहे तिष्ठामि । = I will be at home at half past five.

पञ्च ऊन दशवादने मम घटी स्थगिता । = My watch stoppped at 5 minutes to 10 o’clock.

संस्कृतवार्ताप्रसारः सायं दशाधिक षड्वादने । = The Sanskrit news bulletin is at 6.10 p.m.

सार्धं द्विघण्टात्मकः कार्यक्रमः । = It is a programme for two and a half hours.

षड्वादनपर्यन्तं तत्र किं करोति ? = What are you going to do there till six o’clock ?

शाला दशवादनतः किल ? = The school is from 10 o’clock, isn’t it ?

इतोऽपि यथेष्टं समयः अस्ति । = Still there is a lot of time.

सः षड्वादनतः सप्तवादनपर्यन्तं योगासनं करोति । = He does Yogasana from 6 A.M. to 7 A.M.

मम घटी निमेषद्वयं अग्रे सरति । = My watch goes two minutes fast every day.

समये आगच्छतु । = Come in time.

अरे! दशवादनम् ! = Oh! it is 10 o’clock.

भवतः आकाशवाणी समयः वा? = Is yours the radio time ?

इदानीं यथार्थः समयः कः ? = What is the exact time now ?

किमर्थं एतावान् विलम्बः ? = Why (are you) so late ?

इदानीं भवतः समयावकाशः अस्ति वा ? = Are you free now? (Can you spare a few minutes for me ?)

रविवासरे कः दिनाङ्कः ? = What date is Sunday ?

रविवासरे चतुर्विंशतितमदिनाङ्कः ? = Sunday is 24th ?

पञ्चदशदिनाङ्के कः वासरः ? = Which/What day is 15th ?

भवतः शाला कदा आरब्धा ? = When did your school begin ?

जून प्रथम दिनाङ्के । = On 1st June.

भवतः जन्मदिनाङ्कः कः ? = Which/What is your date of birth ?

अष्टादश दश षडशीतिः । = 18-10-63 (Should be 18-10-86).

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *