Shrimad Bhagavad Geeta Jayanti Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंधShrimad Bhagavad Geeta

श्रीमद्भगवद्गीताजयन्ती।

श्रीमद्भगवद्गीता सनातनधर्मे अत्यन्तं पवित्रग्रन्थत्वेन परिगण्यते। गन्थोऽयं वेदव्यासेन लिखितः वर्तते।

मार्गशीर्षमासे शुक्लपक्षे एकादश्यां तिथौ गीताजयन्ती परिपाल्यते।

भगवान् श्रीकृष्णः स्वयम् अर्जुनाय यद् ज्ञानम् अददात् तत् सर्वं गीतायाम् उपनिबद्धम् अस्ति।

गीताजयन्त्याः पवित्रे दिने गीतापाठः श्रवणं च क्रियेते चेद् अतीव शुभफलदायकं भवति इति मन्यते।

गीतायाम् अष्टादशाध्यायाः सन्ति।
कस्यचन मनुष्यस्य व्यक्तिजीवनस्य समग्रं सारतत्त्वं वर्णितम् अस्ति श्रीमद्भगवद्गीतायाम्।
गीताजयन्त्याः भवद्भ्यः सर्वेभ्यः नैके शुभाशयाः। 🙏🙏

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *