Bal Thakre Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध
बाल ठाकरे
जानेवरी-मासस्य त्रयोविंशे दिनांके १९२६ तमे वर्षे महाराष्ट्र-प्रदेशस्य मुंबई-नगरे जात: अयं महाराष्ट्र-प्रदेशस्य लोकप्रिय: हिंदूवादी राजनेता तथा च ‘शिवसेना’ नामकस्य राजनीतिक-दलस्य संस्थापक: आसीत्। तस्य पितु: नाम केशव: ठाकरे तथा च मातु: नाम रमाबाई ठाकरे आसीत्। तस्य पिता मराठी-जनान् एकत्रीकृत्य संयुक्त-मराठी-चलवल नामकम् एकं आन्दोलनं चालितवान् , एतत् आन्दोलनं मुम्बई-नगरं महाराष्ट्रप्रदेशस्य राजधानीं कर्तुं महत्वपूर्ण-भूमिकाम् ऊढवत्। तस्य विवाह: मीना ठाकरे इत्यनया सह अभवत्। स: आरंभे ‘फ्री-प्रेस’ नामकस्य समाचार-पत्रस्य कृते कार्टून-निर्माणं करोति स्म। अनन्तरं स: ‘मार्मिक’ नामकं स्वकीयं साप्ताहिक-समाचार-पत्रम् आरब्धवान्। १९६६ तमे वर्षे स: “शिवसेना” नामकस्य स्वस्य राजनीतिक-दलस्य निर्माणं कृतवान्। स: सर्वदा तस्य हिन्दुवादि-विचारधारा-कारणात् लोकप्रिय: आसीत्। आरंभे तु कामपि विशेष-सफलतां स: न प्राप्तवान्,किंतु १९९५ तमे वर्षे भाजपा-दलेन सह मिलित्वा स: महाराष्ट्र-प्रदेशे सर्वकारं निर्मितवान्। तस्य अद्वितीय-नेतृत्वं, समाजसेवाया: कारणात् जना: तं “हिंदु हृदयसम्राट्” नाम्ना सम्बोधयन्ति स्म। नवम्बर मासस्य सप्तदश दिनांके २०१२ तमे वर्षे स: स्वास्थ्य-समस्याया: कारणात् दिवंगत:। तस्य मरणोपरांतं सम्पूर्ण-महाराष्ट्र-प्रदेशे शोक: व्याप्त:। तस्य जीवनस्य उपरि चलचित्राणि अपि निर्मितानि जातानि। अद्यापि तस्य विचारधारा सम्पूर्ण-महाराष्ट्र-प्रदेशे विद्यमाना अस्ति।