Maharishi Patanjali Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

पतञ्जलिः महर्षि:

राजापुष्यमित्र-शृङ्गस्य शासनकाले जात: प्राचीनभारतस्य महान् ऋषि: लेखक: तथा च योगगुरु: आसीत्। जन्मस्थलं गोनार्ध (अधुना गोंद,उत्तर-प्रदेश:) आसीत् किन्तु कालान्तरे स: काशीनगरे अवसत्। तेन लिखित: ग्रन्थ: ‘योगसूत्रम्’ तस्य प्रमुखा रचना अस्ति। स: व्याकरणाचार्य: पाणिनि-ऋषे: शिष्य: आसीत्। जनै: पतञ्जलि: शेषनागस्य अवतार: इति कथ्यते। स: प्रसिद्ध: चिकित्सक: आसीत्। ‘चरक-संहिता’ ग्रन्थस्य प्रणेता अपि एष: एव आसीत्। तस्य इतोऽपि एका रचना “महाभाष्यम्”, या रचना व्याकरणशास्त्रस्य एका उत्तमा कृति: अस्ति। आयुर्वेदचिकित्सायाम् अपि पतञ्जलिऋषे: विशिष्टस्थानं वर्तते। आधुनिकभारतस्य योगगुरु: स्वामि-रामदेव: अपि स्वायुर्वेदोद्योगस्य नाम “पतञ्जलि:” स्थापितवान्। अत: अद्यापि पतञ्जलि: स्वयोगशिक्षाकारणत: तथा च आयुर्वेदशिक्षाकारणात् सम्पूर्णविश्वे प्रसिद्ध: अस्ति। विश्वे 21 जुन “अन्तर्राष्ट्रिय-योग-दिवस:” इति रुपेण आयोज्यते।

===================================

भगवान् पतञ्जलिः (हिन्दी: पाणिनि मुनि,) योगसूत्रस्य रचनाकारः । माहेश्वरसम्प्रदायान्तर्गतं पाणिनीयं नव्यव्याकरणंत्रिमुनि-व्याकरणम् इत्युच्यते । त्रिषु मुनिषु अन्यतमः महामुनिः पतञ्जलिः अप्यन्यतमः इति जगतीतले को वा न विजानीते? भगवान् पतञ्जलिः पाणिनीयाष्टके महतीं व्याख्यां व्यलेखीत् । सेयं व्याख्या महाभाष्यम् इत्याख्या जगति प्रसिद्धाऽस्ति । एषः पतञ्जलिः विश्वविश्रुतः भाषाविदासीत् । महाभाष्यं व्याकरणसन्निभं कठिनं दुरूहञ्च विषयं सारल्येन ज्ञापयितुं समर्थः इत्यत्र सर्वेऽपि विद्वांसः एकमतयः । समस्ते वैयाकरणसमुदाये महाभाष्यं महताऽदरेण प्रामाणिकत्वेन च परिगण्यते ।

  📃 परिचयः

विभिन्नेषु प्राच्यग्रन्थेषु पतञ्जलेः गोर्नदीयः, गोणिकापुत्रः, नागनाथः, अहिपतिः, फणिराट्, शेषराजः, चूर्णिकारः तथा च पदकारः इत्यादीनि नामानि प्रसिद्धिं भजन्ते । एभिर्नामभिः इदं स्पष्टं प्रतीयते यत् पतञ्जलिः शेषनागस्य अवतारः आसीदिति ।

🕉 पतञ्जलिनामविषयिणी किंवदन्तिसम्पाद्यताम्🕉

एकदा कश्चित् मुनिः कस्मिंश्चित् तडागे स्नानरतः आसीत् । स्नानसमये कश्चित् क्षुद्रः सर्पः तस्य अञ्जलौ अपतत् । किञ्चिद् भीतः मुनिवरः अपृच्छत् “कोડर्भवान् ?” इति । सर्पःउदतरत् – “सपोડहम्” । ततः श्रुत्वा मुनिवरः पुनः अपृच्छत् “रेफःक्वगतः?” इति । सर्पः उक्तवान् – “त्वया अपहृतः” इति । मुनिवरः स्वत्रुटिं ज्ञात्वा लज्जितः अभवत् । सः ज्ञातवान् यत् अवश्यम् अयं कश्चन महापुरुषः विद्वान् च वर्तते । पतञ्जलेः जीवन-वृत्तान्तविषये अन्याः अपि काश्चन किंवदन्त्यः सन्ति ।

            🌅  देशः 🌇

विशालकाये महाभाष्येऽपि भगवतः पतञ्जलेः इतिवृत्तम् ईषद उपलभ्यते । अतः पतञ्जलेः देशविषये “इदम्-इत्थम्” इत्येवं वक्तुं न शक्यते । तथापि महाभाष्ये “विभाषा साकाङ्क्षा” इति सूत्रव्याख्यावसरे “अभिजानासि देवदत्त ! कश्मीरान् गमिष्यामः तत्र सक्तून् पास्यामः” इत्युदाहरणबलेन इदं प्रतीयते यत् पतञ्जलेः जन्मभूः कश्मीरदेशः स्यादिति । महाभाष्यस्य उदाहरणैः इदमपि ज्ञायते यत् पतञ्जलिः आधिक्येन पाटलिपत्रनगरे वासञ्चकार । ततश्च सः भारतस्यदक्षिणपूर्वदिग्भागे महाभाष्यस्य प्रचारप्रसाराय मथुरायां,वाराणस्यां, पाटलिपुत्रे, साकेते, कौशम्ब्यां च प्राचरत् इति प्राक्तनभारतीयैतिह्यानुशीलनेन ज्ञायते ।

पतञ्जलेः देशसम्बद्धः अपरः तर्कः अपि प्राप्यते यथा – पतञ्जलेः देशकालविषये दृढ: मानदण्ड: विद्यते । अस्य देशः ‘गोनर्दः’ इति ज्ञायते यतः तेन एव उच्यते – ‘गोनर्दीयत्वाह’ इति । तत्र भाष्ये ‘पुष्यमित्रं याजयामहे’ इति दत्तात् उदाहरणात् पतञ्जलिः पुष्यमित्रस्य पुरोहितः इत्यपि केचन वदन्ति । पुष्यमित्रस्य प्रधानभूता राजधानी पाटलीपुत्रम् आसीत् । तथापि अयोध्या उपराजधानी आसीत् इति वदन्ति इतिहासकाराः । अतः गोनर्द(गोण्डा)देशवासिनः पतञ्जलेः पुष्यमित्रेण सह सम्बन्धः स्यात् एव | पतञ्जलिः क्रि०पू० २ शतके आसीत् इति पण्डिताः मन्यन्ते ।

Acharya Chanakya Nibandh in Sanskrit
Adi Shankara Nibandh in Sanskrit
Aryabhata Nibandh in Sanskrit
Bal Thakre Nibandh in Sanskrit
Bharat Ratna Lata Mangeshkar Nibandh in Sanskrit
Chandragupta Maurya Nibandh in Sanskrit
Chandrasekhar Azad Nibandh in Sanskrit
Chhatrapati Shivaji Bhosale – Nibandh in Sanskrit
Dhenu Nibandh in Sanskrit
Dorabji Jamshedji Tata Nibandh in Sanskrit
Dr Shyama Prasad Mukherjee Nibandh in Sanskrit
General Bipin Rawat Nibandh in Sanskrit
K V Sampathkumar Nibandh in Sanskrit
Khudiram Bose Nibandh in Sanskrit
Madhavrao Sadasivarao Golwalkar Nibandh in Sanskrit
Maharana Pratap Nibandh in Sanskrit
Maharishi Charaka Nibandh in Sanskrit
Maharishi Patanjali Nibandh in Sanskrit
Maharishi Ramana Nibandh in Sanskrit
Maharishi Sushruta Nibandh in Sanskrit
Major Dhyan Chand Nibandh in Sanskrit
Mata Rajima Nibandh in Sanskrit
Meerabai Nibandh in Sanskrit
Milkha Singh Nibandh in Sanskrit
Mokshagundam Viswesaraya Nibandh in Sanskrit
Netaji Subhash Chandra Bose Nibandh in Sanskrit
Pandit Birju Maharaj Nibandh in Sanskrit
Pandit Deendayal Upadhyaya Nibandh in Sanskrit
Rani Ahilyabai Nibandh in Sanskrit
Rani Durgavati Nibandh in Sanskrit
Subramanya Bharati Nibandh in Sanskrit
Swami Dayananda Saraswathi Nibandh in Sanskrit
Swami Vivekananda Nibandh in Sanskrit
Varahamihira Nibandh in Sanskrit
Veer Hemu Kalani Nibandh in Sanskrit
Veer Savarkar Nibandh in Sanskrit

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *