Chhatrapati Shivaji Bhosale – Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध
छत्रपति शिवाजी भोसले
फरवरी-मासस्य नवदश-दिनांके १६३० तमे वर्षे शिवनेरीदुर्गे मध्ये जात: अयं भारतस्य शक्तिशाली हिन्दूराजा तथा च मराठा-साम्राज्यस्य संस्थापक: आसीत्।
तस्य पिता शाहजी भोसले एक: शक्तिशाली सामंत: आसीत् तथा च माता जीजाबाई एका शिष्टा धर्मपरायणा महिला आसीत्। जीजाबाई एव तस्य पालनं कृत्वा तस्मै राजनिति-युद्ध-सदाचार-इत्येषां शिक्षां दत्तवती। स: स्वजीवने अष्ट-विवाहान् कृतवान्। विवाहान राजनिति माध्यमेन स: सर्वान् मराठा-शासकान् संगठितवान् ।।
तस्य पिता अल्पकालं निजाम शाशन्स्य अदिल् शाशन्स्य तथाच मुगल् शाशन्स्य कृते कार्यं कृतवान् , किन्तु स: अनन्तरं मुगल-साम्राज्यस्य आधिपत्यं न स्वीकृतवान्। शिवाजी अपि मुगलशासनस्य विरोधी आसीत्। मुगलशासकानाम् अत्याचारस्य स: निर्भय: भूत्वा विरोधं कृतवान्। स: एकस्या: सेनाया: निर्माणं कृत्वा मुगलानां दुर्गाणां उपरी आक्रमणम् आरब्धवान्। बीजापूर-राज्यं तदा विदेशी-आक्रमण-कारणात् संघर्षरतम् आसीत्। शिवाजी मावल-क्षेत्रस्य जनान् संगठितं कृत्वा बीजापूरस्य राज्यस्य उपरी आक्रमणं कृतवान्। स: बीजापूर-क्षेत्रे बहुषु दुर्गेषु आधिपत्यं कृतवान्। १६६५ तमे वर्षे स: ओरंगजेबेन सह पुरन्धर् शान्ति-सन्धि: कृतवान्।। किन्तु ओरंगजेब: विश्वासघातेन शिवां कारावासे स्थापितवान्। शिवाजी चातुर्यबलेन आगरा-कारावासत: पलायनं कृतवान्। १६७४ तमे वर्षे रायगढे तस्य राज्याभिषेक: अभवत्। तदा तस्मै ‘छत्रपति’ इत्यस्य पदवी प्राप्ता |
स: स्वजीवने 360 यावत् दुर्गाणाम् उपरी विजयं प्राप्तवान्। तस्य शासन-व्यवस्था अति उत्तमा आसीत्। संस्कृतभाषा तस्य राज्यस्य राजकीया भाषा आसीत्। हिन्दू-धर्मस्य रक्षणाय एव तस्य जीवनम् आसीत्। १६८० तमे वर्षे स: स्वास्थ-समस्याकारणात् दिवंगत: I स: अति पराक्रमी राजा आसीत्, कदापि युद्धे पराजयं न प्राप्तवान्। अद्यापि सम्पूर्ण-विश्वे तस्य प्रतिमा: सन्ति, तस्य नाम्ना स्थानानि सन्ति। स: सर्वेषाम् आदर्श: अस्ति।