Dr Shyama Prasad Mukherjee Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

डॉ श्याम: प्रसाद: मुखर्जी

6 जुलाई 1901 तमे वर्षे कोलकाता-नगरस्य अति-प्रतिष्ठितपरिवारे जात: अयं भारतस्य प्रसिद्ध: शिक्षाविद्, चिन्तक:, तथा च भारतीय-जनसङ्घस्य संस्थापक: आसीत्। प्रारम्भिक-शिक्षां स्वीकृत्य 1923 तमे वर्षे अभिभाषकस्य उपाधिम् अपि प्राप्तवान्। तदा आङ्ग्लदेशं गतवान्, तत्र बैरिस्टर (अधिवक्ताया: उच्च-उपाधि:) भूत्वा भारतम् आगतवान् । यदा स: केवलं 33 वर्षीय: आसीत् तदैव स: कलकत्ता-विश्वविद्यालयस्य कुलपति: अभवत्। अनन्तरं स: राजनीतिक्षेत्रे प्रवेशं कृतवान्। तदा वीर-सावरकरस्य हिन्दुत्व-विचारेभ्य: प्रभावित: भूत्वा हिन्दु-महासभायाम् प्रविष्टवान्। बङ्गालप्रदेशे मुस्लिम-समुदायम् आङ्ग्लसर्वकार: बङ्गालविभाजनस्य कृते प्रोत्साहनं ददाति स्म। मुखर्जी-महोदय: तस्य विरोधं कृतवान्। स: वदति स्म यत् सांस्कृतिकरुपेण: वयं समाना: एव स्म: । अत: धर्मस्य आधारेण विभाजनं न भवेत् । स: बहु-प्रयत्नं कृतवान् तथापि विभाजनं तु अभवत् , किंतु स: अर्धपञ्जाबं तथा च अर्ध-बङ्गालं संरक्षितुं सफल: अभवत् । स्वतन्त्रताया: परं स: भारतस्य प्रथम-मन्त्रीमण्डले सम्मिलित: जात:। स: वाणिज्य-उद्योगमन्त्री आसीत्। किन्तु अन्य-नेतृभि: सह मतभेद: तु आसीत्। अत: 1951 तमे वर्षे स: भारतीय-जनसङ्घस्य स्थापनां कृतवान्। तदा एष: तत्कालिक-सर्वकारस्य पुरत: दृढ़-विपक्ष: आसीत्। तदा 370 धाराया: कारणात् कश्मीरप्रदेशस्य उपरि भारतस्य सर्वं वर्चस्वम् न आसीत्। मुखर्जी एतस्या: धाराया: विरोधं कृतवान्। स: विना-अनुमतिं स्वीकृत्य कश्मीर-प्रदेशं प्रस्थितवान्। तत्र स: कारावासे स्थापित: । 1953 तमे वर्षे रहस्य-कारणात् तस्य मृत्यु: अभवत् । जना: तस्य बलिदानम् अद्यापि स्मरन्ति।

Leave a Comment

Dear Visitor,

We appreciate your support for our website. To continue providing you with free content, we rely on advertising revenue. However, it seems that you have an ad blocker enabled.

Please consider disabling your ad blocker for our site. Your support through ads helps us keep our content accessible to everyone. If you have any concerns about the ads you see, please let us know, and we’ll do our best to ensure a positive browsing experience.

Thank you for understanding and supporting our site.

Please disable your adblocker or whitelist this site!