Madhavrao Sadasivarao Golwalkar Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

माधवराव: सदाशिवराव: गोलवलकर:

फरवरी मासस्य नवदश-दिनांके १९०६ तमे वर्षे नागपूर-नगरस्य समीपे जात: अयं राष्ट्रिय-स्वयं-संघस्य द्वितीय: सरसंघचालक: आसीत्। तेन एव सर्वप्रथमं हिंदू-राष्ट्र: इति कल्पित:। तस्य पितु: नाम सदाशिवराव: तथा च मातु: नाम लक्ष्मीबाई आसीत्। स: समृद्ध-परिवारत: आसीत्। अत: तस्य शिक्षा सम्यक् रुपेण उच्च-स्तरीय-संस्थाने अभवत्। आरंभे स: हिसलोप-महाविद्यालये प्रवेशं प्राप्तवान्। एष: एक: ईसाई-महाविद्यालय: आसीत्। अत: अत्र हिन्दूविरोधीगतिविधिकारणात् स: दु:खित: जात:। कालान्तरे स: १९२७ तमे वर्षे बनारस-विश्व-विद्यालयत: स्नातकस्य शिक्षां प्राप्तवान्।

स: मदन-मोहन-मालवीयत: प्रभावित: आसीत् । स: बनारस-विश्व-विद्यालये जीवविज्ञानं पाठितवान्। अनन्तरं स: नागपूरम् आगत्य अभिभाषकस्य शिक्षां प्राप्तवान्। अनन्तरं स: राष्ट्रिय-स्वयं-सेवकस्य सम्पर्के आगतवान्। संगठने तस्य समर्पणं दृष्टवा तत्कालीन: सरसंघचालक: हेडगेवारमहोदय: तं प्रति आकर्षित: जात:। स: अनन्तरं रामकृष्ण-मिशन-इत्यस्य कृते संघस्य कार्यं त्यक्तवान् किन्तु १९३७ तमे वर्षे गुरो: मृत्यो: अनन्तरं स: पुन: संघस्य कृते कार्यम् आरब्धवान्।

तस्य नेतृत्व-क्षमतां दृष्टवा सर्वे जना: तं प्रति आकर्षिता: जाता:। १९३९ तमे वर्षे हेडगेवार: घोषणां कृतवान् यत् गोवलकर-महोदय: संघस्य अग्रिम: महासचिव: भविष्यति। हेडगेवार-महोदयस्य मृत्यो: अनन्तरं स: संघस्य द्वितीय: सरसंघचालक: नियुक्त: जात:। तस्य कार्यकाले संघस्य उच्च-स्तरीय: विस्तार: अभवत्। संघस्य विस्तार: विदेशेषु अपि जात:। गोलवलकर: महोदय: समाजवादस्य विरोधी आसीत्। स: संघस्य कार्यं जम्मू-कश्मीरप्रदेशे अपि आरब्धवान्। तत्कालीन: गृहमंत्री वल्लभ-भाई-पटेल-महोदयस्य अनुरोधेन स: कश्मीरस्य राजा हरिसिंह-महोदयेन सह कश्मीरं भारते विलयं कर्तुं चर्चां कृतवान्।

यदा महात्मा-गान्धे: हत्या जाता तदा एषा आशंका आसीत् यत् तस्य हत्याया: पृष्ठे संघस्य हस्त: एव अस्ति। अत: गोलवलकर-महोदयेन सह संघस्य वरिष्ठा: सदस्या: कारावासे स्थापिता: तथा च भारत-सर्वकारेण संघस्य उपरि प्रतिबन्ध: आरोपित:। किन्तु गोलवलकर-महोदय: सरदार-पटेल-महोदयेन सह सन्धिं कृत्वा एष: प्रतिबंधस्य समापनं कारितवान्। स: एक: उत्तम: लेखक: अपि आसीत्। तस्य विचारधारा: तेन लिखितेषु पुस्तकेषु विद्यमाना: सन्ति I जून-मासस्य पंच-दिनांके १९७३ तमे वर्षे स: दिवंगत:। अद्यापि संघ-परिवारे तस्य नाम महता सम्मानेन स्वीक्रियते।

स: अद्यापि सर्वेषाम् आदर्श: अस्ति ।

Leave a Comment

Dear Visitor,

We appreciate your support for our website. To continue providing you with free content, we rely on advertising revenue. However, it seems that you have an ad blocker enabled.

Please consider disabling your ad blocker for our site. Your support through ads helps us keep our content accessible to everyone. If you have any concerns about the ads you see, please let us know, and we’ll do our best to ensure a positive browsing experience.

Thank you for understanding and supporting our site.

Please disable your adblocker or whitelist this site!