Maharishi Charaka Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध
महर्षि-चरक:
भारतस्य प्राचीन- चिकित्सा-पद्धतेः जनकः इत्युक्ते आयुर्वेदस्य जनक: महर्षि: चरक: भारतस्य मूलचिकित्सकेषु एक: अस्ति। स: कुषाणराज्यस्य राजवैद्य: आसीत्। तस्य जन्मदिनाङ्क: निश्चित: नास्ति, किन्तु केचन् वदन्ति तस्य जन्म ईसा-मसीहस्य एक शताब्दीं पूर्वम् अभवत् इति। तेन लिखितः ग्रन्थः “चरक-संहिता” आयुर्वेदस्य प्रसिद्धः ग्रन्थः अस्ति। चरकस्य शिक्षा तक्षशिलायाम् अभवत्। चरकसंहितायां रोगनाशक-रोगनिरोधक-औषधानां वर्णनम् अस्ति। अस्मिन् पुस्तके लौह-ताम्र-स्वर्ण-इत्यादिनां धातुनां वर्णनम् अपि मिलति। स: शरीरे स्थिता: वातः, पित्तं, कफः इत्यादिनां त्रीणां दोषाणाम् उत्तमरुपेण वर्णंनं कृतवान्। एतदर्थम् अद्यापि तेन दत्ता: सिद्धान्ता: वर्तमाने अपि आधुनिकचिकित्साया: कृते बहु सहायका:।