Maharana Pratap Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

महाराणा-प्रताप:

9 मई 1540 तमे वर्षे राजस्थानस्य मेवाड़क्षेत्रस्य कुम्भलगढनगरे जात: अयं सिसोदियाराजपूतराजवंशस्य राजा आसीत्। स: इतिहासे स्ववीरताया: तथा च दृढ-सङ्कल्पस्य कृते प्रसिद्ध: अस्ति। स: मुगलसम्राज: अकबरस्य अधीनतां न स्वीकृतवान् तथा च महान्तं संघर्षं कृतवान्। भारतस्य इतिहासे “हल्दीघाटी का युध्द” प्रसिद्ध: अस्ति, एतत् युद्धं महाराणा-प्रताप: तथा च मुगलसेनयो: मध्ये अभवत्। अस्मिन् युद्धे कोऽपि विजयं न प्राप्तवान् तथापि एतेन युद्धेन महाराणा-प्रतापस्य वीरताया: तथा च शौर्यस्य प्रशंसा सर्वत्र अभवत्। हल्दीघाटीयुद्धस्य अनन्तरं स: वने वासम् आरब्धवान् तथा च तृणस्य रोटिकां खादितवान् किन्तु अकबरस्य अधीनतां न स्वीकृतवान्। तस्य समीपे एक: अश्व: आसीत् यस्य नाम चेतक: आसीत्। स: चेतक: न केवलं अश्व: अपितु स: प्रतापस्य परमं मित्रम् आसीत्। 19 जनवरी 1597 तमे वर्षे यदा स: 56 वर्षीय: आसीत् स: एतत् संसारं त्यक्त्वा मोक्षं प्राप्तवान्। महाराणा-प्रताप: एतादृश: वीर: आसीत् यस्य प्रशंसां तस्य शत्रु: अकबर:अपि कृतवान्। अद्यापि भारतदेशे बहुषु स्थानेषु तस्य प्रतिमा: स्थापिता: सन्ति।

============================

अस्माकं पूर्वजानां स्मरणम् अस्मभ्यम् अद्भुतकार्यकरणे प्रेरणां ददाति । ये पुरुषाः स्वजीवने विशिष्टं महत्कार्यं चक्रुः ते एव भविष्यति काले जनैः संस्मर्यन्ते । तेषां जीवनघटनाः अन्येभ्यः शिक्षाप्रदाः दिक्प्रदर्शकाश्च भवन्ति । भारतभूमिःकर्मभूमिः त्यागभूमिः इति च स्वदेशीयैः विदेशीयैश्च ग्रन्थेषु बहुधा वर्ण्यते । इयं सनातनभूमिः धन्या यस्याः प्रतिपदं श्रेष्ठनरनारीणां जीवनगाथाभिः प्रतिध्वन्यते । भारतीयेतिहासे केचन तपसा ज्ञानेन ग्रन्थग्रथनेन प्रसिद्धिमापन्नाः । एते ऋषयः, मुनयः, दार्शनिकाः कवयः इत्यादिनामभिः आख्यायन्ते । अन्ये केचन शौर्येण त्यागेन देशप्रेम्णा वा आचन्द्रार्कं कीर्तिम् आर्जयन् । ब्रह्मेण तेजसा केचन भूमिम् इमां भूषयामासुः । अपरे वीराः क्षात्रेण ओजसा भारतभूमेः धर्मं संस्कृतिं जनताञ्च संररक्षुः । तादृशेषु अन्यतमःराणाप्रतापसिंहः ।

भारतस्य पश्चिमस्यां दिशि सहस्त्राधिकवर्षेभ्यः आक्रमणं भवति स्म । इमं देशं बहुसम्पदा भरितमिति मन्वानाः वैदेशिकाः तां सम्पदम् आत्मसात् कर्तुम् आगच्छन्ति स्म । तथैव वाणिज्यार्थमपि आगच्छन्ति स्म । तद्विंरुद्धं राजस्थानप्रदेशे राजपुत्राः आक्रमकानां प्रतिरोधाय महान्तं प्रयत्नं चक्रुः । एतेषां राजपुत्राणां शौर्यगाथाः महिलानां त्यागनिष्ठाः च अद्यापि यूनः स्वदेशकार्ये प्रेरयन्ति ।

मेवाड’ इति स्थानं राजस्थाने अत्यन्तं प्रसिद्धमासीत् । तत् स्थानं तत्र उत्पन्नानां शूरराजानां शौर्येण आत्माहुत्या च महतीं प्रसिद्धिम् आप । अत्रत्ये सिसीदियावंशे बाप्परावलः राणाहमीरः, राणासांगा प्रभृतयः शूराः जन्म लेभिरे । एतस्मिन्नेव पुण्यवंशे महाराणाप्रतापसिंहः किस्ताब्दीयचत्वारिंशदुत्तरपञ्चदशशततमे (१५४०) वर्षे जातः । तस्य पिता उदयसिंहः । तस्मिन् समये बहवो राजानःमोगलचक्रवर्तिभिः सह आयुध्य पराजयम् अनुभूय तानेव दिल्लीश्वरान् भावयन्ति स्म । केचन तेषामेव सेवया आत्मनः धन्यान् मेनिरे । तस्मिन् काले अकबरः देहल्यां शासनं करोति स्म । स अन्यराजेषु विद्यमानं परस्परकलहम् एव उपयुज्य आत्मनः शक्तिम् अवर्धयत । तेन वशीकृताः केचन राजानः तस्य सेवायां रताः आसन् । देशरक्षणार्थं सर्वदा बद्धपरिकरेषु राजपुत्रेष्वेव स्वकर्तव्यविरतेषु का कथा अन्येषां राज्ञाम् ? सर्वथा भरतभूमिः वैदेशिकपदाक्रान्ता दास्यदूषिता च आसीत् । इत्थम् अन्धतमसे सर्वत्र व्याप्ते राणाप्रतापः दीपशिखेव आत्मगौरवस्य मूर्तिरिव तस्मिन् कालखण्डे भ्राजते स्म । यद्यपि प्रतापस्य पिता उदयसिंहः प्रतापी राजा आसीत्, किन्तु तस्य दुर्बलतायाः कारणेनैव चित्तौड- मेवाडादिस्थानानि अन्यवशानि अभूवन् । पितुरनन्तरं सिंहासनम् अधिरुढः राणाप्रतापः हस्तच्युतानां प्रमुखानाम् एतेषां स्थानानां विषये पुनः प्राप्तिमार्गविषये च चिन्तयितुम् आरेभे । प्रथमं सः गण्यानां सभाम् आकारितवान् । तत्र तेषां पुरतः यावत्पर्यन्तं चित्तौडस्थानं पुनः न प्राप्स्यामि तावत्पर्यन्तं स्वर्णरजतादिपात्रेषु भोजनं न करिष्यामि, मृदुशयने न शयिष्ये, राजप्रासादे न वत्स्यामि इति प्रतिज्ञां स्वीकृतवान् । तदानींहल्दीघाटप्रदेशे वैरिभिः सह घोरं युद्धं सम्बभूव । वैरिणां सैन्यं समुद्रोपमम् आसीत् । प्रतापः रणरङ्गे घोरम् अयुध्यत । किन्तु पूर्णजयं प्राप्तुं नाशक्तम् । स्वस्य आप्तस्य अश्चस्य चैतकाख्यस्य साहाय्यं सः सर्वदा पाप्तवान् । तेन सः आपदः आत्मानं रक्षितुं शक्तः आसीत् । अरण्यगुहाप्रदेशेषु उषित्वा स्वसङ्कल्पसिद्धये सैन्यसङ्ग्रहणम् उपाक्रमत् ।

Leave a Comment

Dear Visitor,

We appreciate your support for our website. To continue providing you with free content, we rely on advertising revenue. However, it seems that you have an ad blocker enabled.

Please consider disabling your ad blocker for our site. Your support through ads helps us keep our content accessible to everyone. If you have any concerns about the ads you see, please let us know, and we’ll do our best to ensure a positive browsing experience.

Thank you for understanding and supporting our site.

Please disable your adblocker or whitelist this site!