Rani Ahilyabai Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध
व्यक्तित्व-परिचय: :- राणी अहल्याबाई
महाराष्ट्रप्रान्तस्य एकस्य लघुग्रामस्य निर्धनपरिवास्य बालिकाया: उपरि मध्यप्रदेशस्य मालवाप्रान्तस्य होल्करनरेशस्य दृष्टि: गता। सा अति तीव्रबुद्धिशीला, विवेकशीला आसीत्। अत: महाराज: तां स्वपुत्रवधु रुपेण स्वीकृतवान्। तस्या: श्वसूर: दिवंगत:। अनन्तरं एकस्मिन् युद्धे तस्या: पति: अपि दिवंगत:। अनन्तरं सा स्वबुद्धिबलेन स्वयं शासनं कृतवती। तस्या: न्याय: सर्वत्र लोकप्रिय: आसीत्। न्याय निमित्तं सा स्वपुत्राय अपि मृत्युदण्डस्य आज्ञां दत्तवती। तस्या: शासनव्यवस्था,न्यायप्रियताया: कारणात् अन्येषु राज्येषु अपि तस्या: प्रशंसा भवति स्म।
अद्य वयं तां स्मराम:।।