Dorabji Jamshedji Tata Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध

दोराबजी जमशेदजी टाटा

अगस्तमासस्य सप्तविंशति: दिनाङ्के 1859 तमे वर्षे जात: अयं भारतस्य प्रसिद्ध: उद्योगपति: आसीत् । आरम्भिकी-शिक्षां प्राप्य स: उच्च-शिक्षाया: कृते आङ्ग्लदेशं प्रति गतवान्। स: अनन्तरं भारतम् आगत्य मुम्बईविश्वविद्यालयात् स्नातक-शिक्षां प्राप्तवान् l तदुपरान्तं स: तस्य पित्रा सह एव उद्योगे कार्ये संलग्न: जात:। स: तस्य पितु: जमशेदजीत: व्यापारस्य व्यापक-अनुभवं प्राप्तवान् । तस्य विवाह: 1897 तमे वर्षे मेहरबाई नाम्ना महिलया सह अभवत्,किन्तु तयो: कोऽपि सन्तान: न आसीत् । 1904 तमे वर्षे जमशेदजी दिवङ्गत: जात:। तस्य मृत्यो: अनन्तरं स: पूर्णतया स्वपितु: स्वप्न-पूर्णं कर्तुं संलग्न: जात: । स: टाटा-समूहस्य प्रथम-चेयरमेन आसीत् l जमशेदपूरनगरस्य विकासे तस्य एव महती भूमिका आसीत् । स: झारखण्ड-प्रदेशे इस्पात-उद्योगस्य विस्तारं कृतवान्। भारतदेशे औद्योगिक-क्षेत्रे विकासाय न केवलं तस्य महती भूमिका आसीत् अपितु स: समाजसेवाया: कृते तत्पर: आसीत् । तस्य भार्याया: मृत्यो: अनन्तरं स: “लेडी टाटा मेमोरियल ट्रस्ट” इत्यस्य स्थापनां कृतवान् । यस्य उद्देश्यं रक्तसम्बन्धि-रोगाणाम् अनुसन्धान-कार्यम् आसीत् । जीवनस्य अन्तिमवर्षेषु स: सम्पूर्ण-सम्पत्तिं सार्वजनिक-कार्य-निमित्तं दानं कृतवान्।

जून-मासस्य तृतीये दिनाङ्के 1932 तमे वर्षे स: दिवङ्गत: जात: l

Leave a Comment

Dear Visitor,

We appreciate your support for our website. To continue providing you with free content, we rely on advertising revenue. However, it seems that you have an ad blocker enabled.

Please consider disabling your ad blocker for our site. Your support through ads helps us keep our content accessible to everyone. If you have any concerns about the ads you see, please let us know, and we’ll do our best to ensure a positive browsing experience.

Thank you for understanding and supporting our site.

Please disable your adblocker or whitelist this site!