🎠 भारतेश्वरः पृथ्वीराजः 🎠
पृथ्वीराजस्य त्रयोदश राज्ञ्यः आसन् । तासु संयोगिताप्रसिद्धतमा अस्ति । अन्याः जाङ्गलु, पद्मावती, चन्द्रावती अपि प्रसिद्धिं प्राप्नुवन् । भारतसम्राट्त्वेन यदा पृथ्वीराजः सिंहासनारूढः अभवत्, तदा तम् अल्पवयस्कं विचिन्त्य सपादलक्षसाम्राज्यस्य अनेके सामन्ताः, प्रतिवेशिराज्यानि च तस्मै व्यद्रुह्यन् । तेषु प्रप्रथमः नागार्जुनः आसीत् । नागार्जुन चौहान इत्येषः विग्रहराजस्य पुत्रः आसीत् । ११७७ तमे वर्षे पृथ्वीराजः तस्य विद्रोहस्य दमनम् अकरोत् । तस्मिन् युद्धे भादानकदेशीयाः शासकाः, जेजाकभुक्तिप्रदेशस्य शासकः, चालुक्यवंशीयाः च नागार्जुनस्य साहाय्यम् अकुर्वन् । यद्यपि सम्पूर्णस्य सपादलक्षसाम्राज्यस्य शासनं प्राप्तुम् एतैः सर्वैः दुर्गोष्ठी कृत्वा सैन्यबलेन, धनबलेन च आक्रमणं कृतम् आसीत्, तथापि पृथ्वीराजेन नागार्जुनस्य दमनं कृतम् ।
नागार्जुनस्य साहाय्यं यैः शासकैः कृतम् आसीत्, तेषां दुर्गोष्ठ्याः उत्तरं दातुं पृथ्वीराजः दिग्विजयाभियानम् आरभत । तस्मिन् दिग्विजयाभियाने पृथ्वीराजः ११७७ तमे वर्षे भादानकदेशीयान्, ११८२ तमे वर्षे जेजाकभुक्तिशासकं, ११८३ तमे वर्षे चालुक्यवंशीयशासकं च पराजितवान् । एतेषु वर्षेषु एव भारतस्य उत्तरभागे घोरी इत्याख्यस्य गौमांसभक्षिणः योद्धुः शासनविस्तारः, धर्मविस्तारः च जायमानः आसीत् । तस्य शासनविस्तारस्य, धर्मविस्तारस्य च नीतेः फलस्वरूपतया ११७५ तमवर्षात् पृथ्वीराजस्य घोरी इत्यनेन सह सङ्घर्षः आरब्धः । ततः ११७८ तमे वर्षे घोरी इत्येषः गुजरातराज्यस्योपरि आक्रमणं कर्तुं पृथ्वीराजस्य साहाय्यम् अयाचत् । परन्तु पृथ्वीराजस्य मनसि यवनेभ्यः घृणायाः भावः आसीत् तथा च पृथ्वीराजस्य मनसिचालुक्यवंशेन सह तस्य सङ्घर्षः गृहसङ्घर्षः आसीत् । तस्य गृहसङ्घर्षस्य लाभं स्वीकृत्य कोऽपि वैदेशीकः, गौमांसभक्षी यवनः भारतस्योपरि आक्रमणं कुर्यात् इति पृथ्वीराजः नेच्छति स्म ।
पृथ्वीराजः तु घोरी इत्यस्य साहाय्यं नाकरोत्, तथापि घोरी इत्येषः गुजरातराज्यस्योपरि आक्रमणं कर्तुं गतः । तस्मिन् युद्धे घोरी इत्यस्य लज्जास्पदः पराजयः अभवत् । तदारभ्य घोरी इत्येषः पृथ्वीराजस्य परमशत्रुः अभवत् । यतो हि घोरी इत्यस्य मतम् आसीत् यत्, पृथ्वीराजः यदि मम साहाय्यम् अकरिष्यत्, तर्हि तस्य विजयः अभविष्यत् इति । ततः अनेकानि लघुनि युद्धानि पृथ्वीराजस्य, घोरी इत्यस्य च अभूवन् । तयोः युद्धसङ्ख्यायाः उल्लेखः अनेकषु ग्रन्थेषु प्राप्यते । सर्वेषु युद्धेषु घोरी इत्यस्य पराजयः अभवत् । विभिन्नेषु ग्रन्थेषु याः सङ्ख्याः प्राप्यन्ते, ताः सङ्ख्याः ७, १७, २१, २८ च । सर्वेषु युद्धेषु पृथ्वीराजः घोरी इत्येनं बन्दिनम् अकरोत्, ततः तं व्यमोचयत् । परन्तु अन्तिमे नरायनयस्य द्वितीये युद्धे पृथ्वीराजस्य पराजयानन्तरं घोरी इत्येषः पृथ्वीराजं बन्दिनम् अकरोत्, ततः कानिचन दिनानि ‘इस्लाम्’-धर्माङ्गीकरणाय तस्मै शारीरकपीडाम् अयच्छत् । तस्यां शारीरकयातनायां घोरी इत्येषः पृथ्वीराजम् अन्धम् अकरोत् । अन्धः पृथ्वीराजः शब्दवेधबाणेन घोरी इत्यस्य हत्यां कृत्वा स्वपराजयस्य प्रतिशोधं स्वीकर्तुम् इष्टवान् । परन्तु देशद्रोहस्य फलस्वरूपतया तस्य सा योजना अपि विफला अभवत् । एवं यदा पृथ्वीराजस्य निश्चयं परिवर्तयतुं घोरी इत्येषः अक्षमः अभवत्, तदा सः अन्धस्य पृथ्वीराजस्य हत्याम् अकरोत् ।
” एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः ।
शरीरेण समं नाशं सर्वम् अन्यद्धि गच्छति ।
”
अर्थात्, धर्म एव तादृशं मित्रम् अस्ति, यत् मरणोत्तरम् अपि सह गच्छति । इतराणि वस्तुनि शरीरेण सह एव नष्टानि भवन्ति ।
इतिहासविदां मतम् अस्ति यत्, पृथ्वीराजेन उक्तस्य श्लोकस्य स्वान्तिमसमयेऽपि बहुधा आचरणं कृतम् इति ।
🌍 राज्य: 🌍
पृथ्वीराजविजयमहाकाव्यस्य दशमसर्गस्य उत्तरार्धे उल्लेखः प्राप्यते यत्, पृथ्वीराजस्य अनेकाः राज्ञ्यः आसन् इति । परन्तु ताः कति आसन् ? कस्य प्रदेशस्य च राजकुमार्यः आसन् ? इति उल्लेखः तत्र नास्ति । पृथ्वीराजरासोकाव्ये उल्लेखः अस्ति यत्, पृथ्वीराजः यदा एकादशवर्षीयः आसीत्, तदा तस्य प्रप्रथमविवाहः अभवत् । ततः प्रतिवर्षं तस्य एकः विवाहः अभवत् । यावत् पृथ्वीराजः द्वाविंशतिवर्षीयः (२२) अभवत्, तावत् प्रतिवर्षं विवाहस्य क्रमः अचलत् । ततः पृथ्वीराजः यदा षड्त्रिंशद्वर्षीयः अभवत्, तदा तस्य अन्तिमविवाहः संयोगितया सह अभवत् ।
पृथ्वीराजस्य प्रप्रथमविवाहः मण्डोर-प्रदेशस्य नाहड राव पडिहार इत्यस्य पुत्र्या जम्भावत्या सह अभवत् । पृथ्वीराजरासोकाव्यस्य लिखितपत्रे केवलं पञ्चानां राज्ञीनां नामानि सन्ति । ताः जम्भावती, इच्छनी, यादवी शशिव्रता, हंसावती, संयोगिता च । पृथ्वीजरासोकाव्यस्य लघुलिखितपत्रेषु केवलं नामद्वयं प्राप्यते । ते इच्छनी, संयोगिता च । तथा च लघुत्तमायां लिखितपत्रे केलवं संयोगितायाः नाम प्राप्यते । एवं संयोगितायाः नाम सर्वासु लिखितपत्रेषु प्राप्यते ।