Chanakya Nibandh in Sanskrit
🌻 चाणक्य: 🎓
मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत् । सः प्राचीनभारतस्य प्रसिद्धतम: कूटनीतिज्ञोऽभवत् । तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च । चाणक्य: अर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत् । राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति ।
चाणक्यस्य पिता चणकः कश्चन ब्राह्मणः आसीत् । बाल्ये चाणक्यः सर्वान् वेदान् शास्त्राणि च अपठत्। परं सः नीतिशास्त्रम् एव इच्छति स्म । सः यौवने तक्षशीलायाम्अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत् । अतः चाणक्यः धनानन्दम् प्रति प्रतीकारम् ऐच्छत् । चाणक्यः धीरेण चन्द्रगुप्तमौर्येण मिलित्वा तं सिंहासने स्थापयितुम् अचिन्तयत् । एका माता स्वपुत्राय अक्रुध्यत्। सा उवाच ” पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यभागात् अखादत् । अपूपम् तस्य कोणात् खाद” इति । तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथमम् अजयत् । ततः सः चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत् । विशाखदत्तस्य नाटकम् मुद्रराक्षसंचाणक्यस्य चरितं कथयति ।
प्राचीनकाले भारतवर्षे मगधजनपदे नन्दवंशमिति एकं साम्राज्यम् आसीत् । मगधसाम्राज्यस्य राजधानी पाटलिपुत्रम् आसीत् । अस्मिन् साम्राज्ये बुद्धिमन्तः मन्त्रिण:, कर्तव्यनिष्ठा: कर्मचारिण:, गुणवन्त: पन्डिता:, शक्तिमन्त: सैनिका: च आसन्। नगरस्य वैभवम् अत्युत्कृष्टम् आसीत् । राज्ये उत्तमं कृषिकार्यं प्रचलति स्म । अन्त: नागरिका: धनिका: आसन् । शिक्षणव्यवस्था अपि अत्युत्क्रष्टा आसीत् । अस्मिन् एव राज्ये विश्वप्रसिद्ध: नलन्दाविश्वविद्यालय: आसीत् । राज्ये बहूनि वर्षाणि यावत् शासन्व्यवस्था उत्तमरीत्या प्राचलत् । अनन्तरं नन्दवंशे समुत्पन्न: धननन्द: राजा अभवत् । स: परमस्वार्थी इन्द्रियासक्तः च आसीत् । राज्यकार्ये तस्य रुचि: न आसीत् । अतः एव मगधराज्यं समस्याग्रस्तं जातम् । तस्मात् सर्वे नागरिका: चिन्ताग्रस्तः अभवन् ।
पाटलिपुत्रे बुद्धिमान् सदगुणसम्पन्न: राष्ट्रभक्त: सर्वशास्त्रपारङ्गत: चाणक्य: अपि वसति स्म। सर्वे राष्ट्रभक्ता: चाणक्येन सह परामर्शं कृतवन्त:। चाणक्य: धननन्दं बोधयितुं तस्य सकाशं गतवान्, किन्तु धननन्द: कुपितः जात:, स: चाणक्यस्य कृते अपमानमपि कृतवान् । तदानीं परमसात्विक: चाणक्य: नन्दसाम्राज्यं विनाशायितुं प्रति कृतवान् । स: एकं धीरं शास्त्रनिपुणं वीरं युवानं दृष्टवान् । तस्य नाम ‘चन्द्रगुप्त:’ इति । चाणक्य: चन्द्रगुप्ते अद्भुतं सामर्थ्यं दृष्टवान्। अतः एव चाण्क्य: स्वबुद्धिकौशल्येन दुष्टात् धननन्दात् राज्याधिकारं हित्त्वा नन्दवशं समूलं विनाश्य चन्द्रगुप्ताय मगधरज्यं दत्तवान् । स्वयं चाणक्य: तस्य महामात्य: अभवत् । चन्द्रगुप्तस्य पराक्रमेण चाणक्यस्य बुद्धिकौशलेन च मगधराज्यं पुनरपि सुखसमृद्धियुक्तम् अभवत् । चाण्क्यस्य मूलनाम “विष्णुगुप्तः” इति आसीत् । स: चणकस्य पुत्र: आसीत् अतः एव ’चाणक्य:’ इत्यपि कथ्यते। तस्य एव अपरं नाम ‘कौटिल्य:’ इत्यपि आसीत् । चाणक्यस्य जन्म ख्रीस्तपूर्वतृतीयशताब्दे अभवत् । स: स्वयं राजनीतिज्ञ: आसीत् । अतः एव राजनीतिशास्त्रं, धर्मशास्त्रं, विधिशास्त्रम्, अर्थशास्त्रं च अधिकृत्य ‘अर्थशास्त्रम्’ इति ग्रन्थस्य रचनां कृतवान् । अर्थशास्त्रे राजनीतिविषयकानि सूत्राणि सन्ति। चाणक्येन अर्थशास्त्रे पराशर-बृहस्पति-भारद्वाज-मनु-पिशुन-विशालक्ष-आदीनां स्वपूर्ववर्तिनाम् अर्थशास्त्रविदुषाम् अपि उल्लेख: कृत: चाणक्यात् अर्थशास्त्रपरम्परायां ’कामन्दकीय-नीतिसार:’ महत्वपूर्ण: ग्रन्थ: अस्ति।