🌻 🌻
🙏 दुर्गापूजा 🙏
पश्चिमवङ्गराज्ये आश्वयुजमासः वर्षस्य् प्रमुखभागायते । यतः अस्मिन्नेव मासे महोत्साह दायकं नवरात्रोत्सवम् आचरन्ति तत्रत्याः । दुर्गापूजायाः आचरणस्य परम्परा बह्वीभ्यः शताद्वीभ्यः पूर्वम् एव आरब्धा । द्वादशशताब्द्ययाः पूर्वात् एव आरभ्य आचर्यते स्म दुर्गापूजा इति ज्ञायते भारतीयस्य साहित्यस्य अध्ययनेन । एतस्मात् स्पष्टं यत् आ बहोः कालात् अविच्छिन्नतया उत्सवोऽयम् आचर्यमाणः अस्ति तत्र इति । पूर्वं भूस्वामिनः वाणिज्यकाराः च स्वगृहेषु पूजाम् आयोजयन्ति स्म । तत्सम्बद्धं व्ययं स्वयं वहन्ति स्म च । जातिभेदं, धनिकारिद्रभेदं च विना सर्वेऽपि प्रतिवेशिनः पूजास्थाने उपस्थिताः भवन्ति स्म । सर्वेषां स्वागतं, पूर्णोदरं भोजनं च भवति स्म । किन्तु अद्यत्वे सा पूजा जातितरिधाउ एव आचर्यते जनैः स्वयम् एव । एतदर्थं घटितेषु सङ्घेषु, समितिषु, समूहेषु च पूजामाध्यमेन क्र्मशः शीलविकासः जायते स्म पूर्वम् । सामाजिकधार्मिकप्रतिकभूतः एष उत्सवः अत्युन्नतां प्रगतिं प्राप्नोति स्म अपि । किन्तु इदानीम् एतत् परिस्थितिवशात्, वैभवाडम्बरादि प्रदर्शनकारणं जातम् अस्ति । पूर्वं दुर्गा एका एव पूज्यते स्म । किन्तु इदानीं सा परिवारसहिता द्दस्यते । पत्युः शिवस्य, पुत्रयोः गणेशकर्त्तिकेययोः समक्षे दुर्गायाः मूर्तिः प्रमुखतया यथा भासेत् तथा कृत्वा दिव्यसन्निधिं चित्रयन्ति । पूजा दिनत्रयं यावत् भवति ।
🌻
🙏 नवरात्रोत्सवः भाग २
भारतीयाः उत्सवप्रियाः । वत्सरे प्रतिदिनं यः कोऽपि उत्सवः यत्र क्व अपि प्रचलत्येव । तेषु नवरात्रोत्सवः अन्यतमः । अयमेव दसरामहोत्सवः इति मैसूरुनगरे महता वैभवेन अनुष्ठीयते । अयमुत्सवः जनोऽत्साहं नितरां प्रवर्धयति । निखिलं नगरं विद्युद्दीपेन अलङ्कृतम् । जनाः मैसूरुमुखाः सन्दृश्यन्ते । सचिवाः अधिकारिणश्च इममुत्सवं यशस्विनं कर्तुं यतन्ते । महिषमण्डलं, महिषपुरं, महिषकं , महिष्वाद्रिः, महिषनाडु, मैसूनाडु, मैसूरुनाडु, महिसूरु इत्येताभिः संज्ञाभिः कालगर्भे तदा तदा प्रख्यातं नगरं सम्प्रति ‘मैसूरु’ इत्येतया संज्ञया प्रथिता । पूर्वं कर्णाटकराज्यं मैसूरुनाम्ना व्यवह्रियते स्म । सम्प्रति कर्णाटकराज्यस्य ‘सांस्कृतिकराजधानी’ इति प्रथां लभते । प्रवासोद्यमदृष्ट्या अनुपमः मैसूरुप्रान्तः । किं तु यावत् अभिवृद्धिः कर्तुं साध्या तावत् न प्रजाप्रतिनिधिभिः न संसाधिता । मैसूरुनगरं स्वतः सुन्दरम् । तत्र मैसूरुराजाः कारणम् । दसरावसरे इदं नगरम् अन्यादृशमिव शोभते । विजयनगरसाम्राज्येन उपक्रान्तः महानवमी-उत्सवः अत्र एतावदनुवर्तते । रात्रिनवकम् अभिव्याप्य अनुष्ठियम् इदं व्रतं महानवमी इति उच्यते । दशम्याम् उपसंहारं गच्छति । सैव दशमी विजयदशमी । एतदवसरे राजसौधस्य अन्तः बहिश्च धार्मिकसांस्कृतिक- कार्यक्रमः अनवरतं प्रचलति । तत्र अन्तः यथापूर्वं पराम्पराप्राप्तं धर्मकृत्यं श्रीमद्भिः श्रीकण्ठदत्तनरसिंहराज-ओडेयर्-वर्यै: निरुह्यते ।बहिः कर्णाटक -सर्वकारेण सांस्कृतिककार्यक्रमेण सह कृषि-उद्यम-वाणिज्यादिसम्बद्धाः कार्यक्रमाः व्यवस्थापिताः भवन्ति । उत्सवः चैतन्यदायकः उत्साहवर्धकश्च । नैसर्गिकविपत्तौ, आर्थिकसङ्करे, सामाजिकसंक्षोभे अपि अयम् उत्सवः मनस्स्थैर्यं स्थापयति । । सम्प्रति दसरामहोत्सवः वैभवशृङ्गम् अधिरोहति । अत्र नवदुर्गाः आराध्यन्ते ! जगन्मूलं मूलप्रकृतिः परिणमते तदा वैषम्यं अनिवार्यम् ।एतदर्थं गुणत्रयं नवरात्रोत्सवे महादेवी, महालक्ष्मी, महासरस्वती रूपेण समाराध्यते। किन्तु न बाह्यार्चनमात्रेण अयं लाभः अवाप्यते । तेन सः अन्तरङ्गे सदिच्छासत्क्रियासम्यग्ज्ञानं च सङ्कलनीयम् । तदैव एषा आराधना भवति । तत्र दसरावसरे चित्रकला, शिल्पकला, सङ्गीतं, नृत्यं, क्रीडा, चलच्चित्रं, जानपदीयाकला, साहित्यं, कविः, आहारः इत्येते विषया: आराधनामनोभावेन निर्वहणीया: । मैसूरुराजशासनकाले यानि भव्यानि भवनानि शिल्पकलावैभवोपेतानि निर्मितानि तानि संरक्षणमर्हन्ति । । एतेषु कृष्णराजवैद्यालयः, आयुर्वेद वैद्यालयः, युवराजकालेज्, महाराजसंस्कृतमहापाठशाला इत्यादयः गणनां अर्हन्ति । मैसूरुनगरस्य वैशिष्ट्येषु सुधर्मासंस्कृतदिनपत्रिका अपि उल्लेखनीया । विश्वेस्मिन् इयमेषा अनुपमापत्रिका । नवरात्रमहोत्सवः दशदिनं यावत् प्रचलति । उत्सवोऽयं ‘दसरा” इति ‘डशहरा’ इति च प्रादेशिकभाषासु उच्य्ते । भारतस्य व्सर्वेषु प्रदेशेषु एतम् उत्सवम् आचरन्ति । आश्वयुजमासस्य प्रथमदिनादारभ्य दशमीपर्यन्तम् अयम् उत्सवः भवति । तेषु दिनेषु देवीपूजायाः प्राशस्त्यम् अस्ति ।
दुर्गा पूजा पर कैसे निबंध लिखें?
दुर्गा पूजा का सांस्कृतिक महत्व क्या है?
आप दुर्गा पूजा कैसे मनाते हैं अपने शब्दों में कुछ पंक्तियाँ लिखें?