जनरल-विपिन-रावत:
16 मार्च 1958 तमे वर्षे उत्तराखण्डस्य पौड़ी-गड़वाल-जनपदे जात: अयं भारतस्य प्रथम: रक्षा-प्रमुख: (CDS, Chief of Defence Staff) तथा च थलसेनाया: अध्यक्ष: आसीत् । तस्य पिता लक्ष्मणसिंह-रावत: अपि लेफ्टिनेण्ट-जनरल् आसीत् । अत: तस्य गृहे अपि सैन्य-शिबिरम् इव वातावरणम् आसीत् । 1985 तमे वर्षे तस्य विवाह: मधुलिका महोदयया सह अभवत्। विपिन: रावत: भारतीय-सैन्य-अकादमीत: स्नातक-शिक्षां प्राप्तवान्। आई.एम. ए. देहरादूनत: स: ‘सोर्ड ऑफ़ ऑनर’ इति उपाधिं प्राप्तवान् । 2011 तमे वर्षे स: मेरठस्य चौधरी-चरण-सिंह-विश्वविद्यालयत: विद्या-वारिधि: (पीएचडी) इति उपाधिं प्राप्तवान् । जनवरी 1979 तमे वर्षे मिजोरम-प्रदेशे तस्य प्रथमा-नियुक्ति: जाता l काङ्गो-मध्ये स: संयुक्त-राष्ट्रस्य पीसकीपिङ्ग-फोर्स-इत्यस्य नेतृत्वं कृतवान् । 1 सितम्बर 2016 तमे वर्षे स: सेनाया: उप-प्रमुख: नियुक्त: जात:। तस्मिन् वर्षे अपि 31 दिसम्बर 2016 तमे वर्षे थल-सेनाया: प्रमुख: अभवत् । 1 जनवरी 2020 तमे वर्षे स: भारतस्य रक्षा-प्रमुख: (CDS, Chief of Defence Staff) अभवत् । अर्थात् स: तिसृणां सेनानां अध्यक्ष: नियुक्त: जात:। 8 दिसम्बर 2021 तमे वर्षे भारतीय-वायुसेनाया: विमानं तमिलनाडू-प्रदेशस्य कुन्नूर-नगरस्य समीपे दूर्घटनाग्रस्तं जातम् l अस्यां दुर्घटनायां रावत: महोदय:, तस्य पत्नी मधुलिका रावत: तथा च सेनाया: अन्य-द्वादश: सैनिका: दिवङ्गता: जाता:। तस्य मृत्यो: कारणात् सम्पूर्ण-देशे शोक: व्याप्त:l स: उत्तम: सेनाध्यक्ष: आसीत्। तस्य आदर्शा: चिरं जीविता: भविष्यन्ति।