के वी संपतकुमार:
कर्नाटकप्रदेशस्य कलाले ग्रामे जात: अयं विश्वस्य प्रसिद्ध-संस्कृत-समाचारपत्रस्य सुधर्माया: सम्पादक: आसीत्। सुधर्मा समाचार-पत्रस्य स्थापना तस्य पिता के एन वरदराजा-अयङ्गर-महोदय: 1970 तमे वर्षे कृतवान्। किन्तु 1990 तमे वर्षे स: दिवङ्गत: जात: । तदनन्तरं सम्पतमहोदय: तथा च तस्य पत्नी विदुषी जयलक्ष्मी: तस्य समाचार-पत्रस्य प्रसारणार्थं कार्यं कुरुत: स्म । एतत् समाचार-पत्रम् केवलम् एकम् एव संस्कृत-दैनिक-समाचारपत्रम् अस्ति, प्रतिदिन् 3500 एतत् समाचार-पत्रस्य प्रतिनां प्रकाशनं भवति। एतस्य अन्तर्जाल-संस्करणम् अपि उपलब्धम् अस्ति। 30 जुन 2021 तमे वर्षे स: कार्यालये हृदयाघातेन दिवङ्गत: जात:। संस्कृतभाषाया: सरंक्षणे तथा च प्रसारणे तस्य महती भूमिका आसीत्। तस्मै तथा च तस्य भार्यायै भारतसर्वकार: पद्म-श्री: इति सम्मानेन अलङ्कृतवान्। संस्कृतस्य महान् विद्वान् अद्य अस्माकं मध्ये नास्ति किन्तु तस्य आदर्श: संस्कृतभाषाया: समर्पणम् अस्माकं कृते ऊर्जाया: स्रोत: अस्ति।