महर्षि रमणः
1879 तमे वर्षे 30 डिसम्बर् तमिलनाडु प्रदेशस्य चेन्नै -नगरे जातः अयं भारतस्य आधुनिककालस्य महान् ऋषिः आसीत् । तस्य प्रारम्भिकी शिक्षा तिरुच्चुषि-नगरे जाता । तस्य रूचिः शिक्षायाः अपेक्षया मुष्टियुध्दे तथा च मल्लयुध्दे अधिका आसीत् किन्तु अध्यात्मस्य क्षेत्रे अपि तस्य महती रूचि: आसीत् l 1895 तमे वर्षे तिरुवन्नम् नामकस्य स्थानस्य प्रंशसां श्रुत्वा सः तत्र गतवान् । तत्र एकान्तक्षेत्रं प्रति गत्वा प्रार्थनां करोति स्म। सः पञ्चविंशति: वर्षाणि यावत् कठोरं तप: कृतवान् । स: सर्वत्र अध्यात्म- विषये वार्तां करोति स्म। एतदर्थं जनाः तं प्रति आकृष्टा: भूत्वा तस्य भक्ताः भवन्ति स्म। संस्कृतभाषायाः महान् विद्वान् गणपति शास्त्री वर्यः तस्य सम्मानं कृतवान् । महर्षि: रमणः तस्मै ‘रामनन्’ तथा च ‘महर्षि:’ नामकौ उपाधी दत्तवान्। महर्षि: रमण: अद्वैतवाद-विचार-धारायाः आसीत् । सः उक्तवान् यत् परमानदस्य प्राप्ति: अन्त:साधनया तथा च अहंकारस्य नाशेन भवति। 1950 तमे वर्षे 14 एप्रिल् मासस्य रात्रौ काले तस्य महाप्रयाणम् अभवत्। तस्य विचारधारा इदानीम् अपि समाजस्य मार्गदर्शनं करोति l