मेजर् ध्यान-चन्द:
29 अगस्त 1905 तमे वर्षे उत्तरप्रदेशस्य प्रयागराजे जात: अयं भारतस्य एव न विश्वस्य प्रसिद्ध: हॉकी-क्रीडक: आसीत्। तस्य पिता भारतीय-सेनायां कार्यरत: आसीत्। तस्य पितु: वारं वारं स्थानान्तरं भवति स्म। अत: प्राथमिकी-शिक्षां प्राप्य एव स: विद्यालयं त्यक्तवान्। कुश्ती-युद्धं तस्य प्रियम् आसीत्। एकदा हॉकीक्रीडां द्रष्टुं स: तस्य पित्रा सह गतवान्। तदा एक-पक्ष: पराजित: भवति स्म। ध्यानचंद: अपि अनुमतिं प्राप्य निर्बल-गणेन सह भूत्वा हॉकी क्रीडितवान् तथा च विजयं प्राप्तवान्। तदा जना: तस्य हॉकी-प्रतिभां दृष्टवन्त:। तस्य चयनं अपि सेनायाम् अभवत्। अत्र स: ‘हॉकी’ इत्यस्य सम्यक् रुपेण अभ्यासं कृतवान्। तस्य चयनं अन्तराष्ट्रीय-स्तरे अपि अभवत्। स: स्वजीवने ओलंपिक-स्पर्धायां त्रि-वारं स्वर्ण-पदकं प्राप्तवान्।जना: तं “हॉकी का जादूरगर” इति नाम्ना अपि सम्बोधनयन्ति। 2021 तमे वर्षे प्रधानमंत्री नरेन्द्रमोदी राजीव-गांधी-खेलरत्न “पुरस्कारस्य नाम परिवर्तित्वा “मेजर-ध्यानचन्द-खेल-रत्न” इति कृतवान्। स: भारतस्य नाम सर्वत्र प्रसारितवान् तथापि तस्य जीवनस्य अन्तिम-समय: कष्टकर: आसीत्। तस्य समीपे पर्याप्तं धनमपि न आसीत्। 1979 तमे वर्षे स: वृक्करोगेन पीड़ीत: भूत्वा दिवंगत: जात:। किन्तु हॉकी-क्षेत्रे तस्य नाम अमर: अभवत्।