Meerabai Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध
मीराबाई
राजस्थानस्य पाली जनपदे जाता कृष्णभक्ता मीराबाई भक्तिकालस्य प्रमुखा कवयित्री आसीत्। सा भगवत: श्रीकृष्णस्य स्वपतिरुपेण आराधनां कृतवती। यद्यपि सा राजपरिवारात् आसीत् तथापि तस्या: आसक्ति: सांसारिकभोगविलासे न आसीत्। तस्या: एतादृशेन व्यवहारेण तस्या: परिवारस्य सदस्या: तस्यै विषं दत्तवन्त: किन्तु श्रीकृष्णस्य कृपया विषस्य तस्या: शरीरे कोऽपि प्रभाव: न अभवत्। तया लिखितानि भजनानि अद्यापि सर्वत्र प्रसिद्धानि सन्ति। “पायोजी मैंने राम रतन धन पायो” मीराया: भजनं सर्वतमं प्रसिद्धं भजनं अस्ति। मेड़तानगरे स्थितं “मीरामहल” एक: सङ्ग्राहलय: अस्ति तस्मिन् मीराया: सम्पूर्णजीवनचित्रणम् अस्ति। धन्यवाद:।