सुभाष-चन्द्र-बोस:
1897 जानेवरी-मासस्य त्रयोविंशति तमे दिनाङ्के उड़ीसा-प्रदेशस्य कटक-नगरे जात: अयं भारतस्य सर्वतम: लोकप्रिय: नेता , राजनीतिज्ञ: तथा च स्वतन्त्रता-सङ्ग्राम-सेनानी आसीत्। तस्य पितु: नाम जानकीनाथ: बोस: तथा च मातु: नाम प्रभावती आसीत्। तस्य पिता कटक-नगरस्य प्रसिद्ध: अभिभाषक: आसीत्। कटक-नगरात् एव स: प्राथमिक-शिक्षां प्राप्तवान्। तस्य पितु: इच्छा आसीत् यत् स: ‘आईसीएस’ इत्यस्य परीक्षां दद्यात्, किन्तु एषा अति-कठिना परीक्षा आसीत्। किन्तु सुभाष-चन्द्र: आङ्ग्लदेशं प्रति गतवान् तथा च तत्र गत्वा कठोर-श्रमं कृतवान्। अन्तत: स: आईसीएस इत्यस्य परीक्षायां उत्तीर्णः अभवत् । किन्तु अस्मिन् एव समये स: स्वामी-विवेकानन्दस्य तथा च अरविन्द-घोषस्य विचारधारैः प्रभावित: जात:। स: आङ्गलानां सेवाया: अपेक्षया देशसेवाया: मार्गस्य चयनं कृतवान्। जून्-मासे १९२१ तमे वर्षे स: पुन: भारतं प्रति आगतवान्।
अत्र स: सर्वप्रथमं महात्मा-गान्धिना सह मिलितवान्। गान्धी: तस्मै कोलकाता-नगरं प्रति गत्वा दासबाबु-महोदयेन सह मिलित्वा कार्यं कर्तुं परामर्शं दत्तवान्। दासबाबूमहोदयः स्वराज-पार्टी नाम्ना राजनीतिक-दलस्य निर्माणं कृतवान् आसीत्। स: तत्र महापालिकाया: निर्वाचने अपि विजयं प्राप्तवान्। स: सुभाषं महापालिकाया: कार्यकर्ता अधिकारी इति नियोजितवान्। सुभाष: कोलकातानगरस्य सर्वेषां मार्गाणां नामानि परिवर्तनं कृत्वा तेषां कृते भारतीय-नामानि दत्तवान्। शीघ्रमेव सुभाषचन्द्र: भारतस्य महत्वपूर्ण: नेता अभवत्। स: मोतीलालनेहरु-वर्येण सह कार्यम् आरब्धवान्।
काङ्ग्रेस-मध्ये अपि सुभाषस्य दायित्यं वर्धितम्। सुभाष: स्वजीवने एकादश-वारं कारावासं गतवान्। स: तपेदिक-नाम्ना रोगेण पीड़ित: अभवत् तथापि स: निरन्तरं देशसेवाया: संघर्षं कृतवान्। 1933 तमे वर्षे स: चिकित्साया: कृते युरोप-देशं प्रति गतवान्। 1934 तमे वर्षे यदा स: आस्ट्रिया-देशे चिकित्सां कारयति स्म, तदा स: समान्तर-रुपेण स्वतंत्रताया: कृते योजनाम् अपि करोति स्म। तदा तत्र वियेना-एमिली-नाम्ना आस्ट्रियन-कन्यया सह तस्य विवाह: अभवत्। 1938 तमे वर्षे काङ्ग्रेसस्य वार्षिक-अधिवेशनं हरिपूरा-मध्ये अभवत्। अत्र गान्धीवर्यः सुभाषं काङ्ग्रेसस्य अध्यक्ष: नियोजितवान्। अस्मिन् समये सुभाषचन्द्रस्य अध्यक्षीय-भाषणं बहु उत्तमं अभवत्। किन्तु गान्धीवर्यःसुभाषस्य कार्यपद्धत्या सन्तुष्ट: न आसीत्।
अस्मिन् एव समये द्वितीय-विश्वयुद्धस्य वातावरणं निर्मितम्। सुभाषस्य इच्छा आसीत् यत् आङ्गलानां कठिनपरिस्थित्यामेव लाभं स्वीकृत्य स्वतन्त्रताया: कृते प्रयासः वर्धनीयः। किन्तु गान्धीवर्यः एतेन संतुष्ट: न जात:। एतेन कारणेन तयो: मध्ये मतभेद: जात:। सुभाषचन्द्र बोस: काङ्ग्रेसत: त्यागपत्रं दत्वा “फारवर्ड ब्लॉक” नाम्ना स्वस्य एकं दलं निर्मितवान्। ‘हालवेट-स्तम्भ’ नाम्ना एकः स्तंभः भारतस्य परतन्त्रस्य प्रतीक: आसीत्। सुभाषचन्द्रबोसस्य नेतृत्वे तस्य स्तंभस्य विध्वंसः जातः। एतस्य परिणाम-स्वरुपं सुभाषेन सह फारवर्ड-ब्लॉकस्य सदस्यान् आङ्ग्लसर्वकार: कारावासे स्थापितवन्तः। सुभाषस्य स्वास्थ्यःसम्यक् न आसीत् , अत: तं गृहबन्धनमेव कृतवान् । किन्तु सुभाष-चन्द्रबोस: कपटवेषं धृत्वा पलायनं कृतवान्।
तत: स: पेशावरं गतवान्, अनन्तरं अफगानिस्तानदेशस्य काबूल-नगरं गतवान्। अनन्तरं स: जर्मनी-देशस्य बर्लिन-नगरं प्राप्तवान्। जर्मनी-देशे स: “भारतीय स्वतन्त्रता संगठन” तथा च “आजाद हिन्द रेडियो” इत्यनयो: स्थापनां कृतवान्। स: तत्र हिटलरेन सह अपि मिलितवान् तथा च तस्मात् भारतस्य स्वतन्त्रताया: कृते सहायतां याचितवान्। किन्तु हिटलरस्य भारतविषये अधिका रुचि: न आसीत्। अत: स: अनन्तरं जापानं गतवान्। जापानस्य प्रधानमन्त्री तस्य सहायताया: कृते वचनं दत्तवान्। अक्टोबर मासस्य एकविंशतितमे दिनांके १९४३ तमे वर्षे स: सिंहापूरमध्ये “आजाद-हिन्द-फौज” इत्यस्य स्थापनां कृतवान्। स: एतस्या: सेनाया: प्रधानसेनापतिः आसीत्। आजाद-हिन्द-फौज मध्ये महिलानां कृते “झांसी की रानी रेजीमेंट” इत्यस्य दलस्य अपि रचना जाता। आजाद-हिन्द-फौज् इत्यस्य जयघोष: आसीत् – “तुम मुझे खून दो, मैं तुम्हें आजादी दूंगा” ।
आजाद-हिन्द-फौजेन जापानसेनया सह द्वितीय -विश्व-युद्धसमये भारतस्य उपरि आक्रमणं कृतम्। तदा ते अंडमान-निकोबार-द्वीपयोः मध्ये विजयं प्राप्तवन्त:। किन्तु ते इम्फाल-कोहिमा-क्षेत्रयो: पराजयं प्राप्तवन्त:। किन्तु नेताजी अत्रापि स्वस्य साहसस्य परिचयं दत्वा तत: पलायनं न कृतवान्। जुलाई-मासस्य षष्टे दिनांके नेताजी रेडियो-माध्यमेन महात्मा-गाँधीं सम्बोधनं कृत्वा आजाद-हिन्द-फौज-विषये उक्तवान्।
जापानस्य पराजय-कारणात् स: अन्यं विकल्पम् अन्वेष्टुं रुस-देशात् सहायतां याचितुं निर्गतवान्।। अगस्त मासस्य अष्टादश-दिनाङ्के १९४५ तमे वर्षे स: वायुयाम-माध्यमेन यात्रा करोति स्म,किन्तु अनन्तरं स: कुत्रापि न दृष्ट: । तस्य मृत्यु: इदानीम् अपि रहस्यम् एव अस्ति। किन्तु तस्य प्रयत्नेन भारत-देशे स्वतन्त्रता-आन्दोलनं तीव्रम् अभवत् तथा च १९४७ तमे वर्षे भारतं स्वतन्त्रम् अभवत्। स: अद्यापि सम्पूर्ण-विश्वस्य कृते आदर्श: अस्ति।