Pandit Deendayal Upadhyaya Nibandh in Sanskrit – Essay in Sanskrit – संस्कृत भाषा निबंध
पं दीन-दयाल-उपाध्याय: 25 सितम्बर 1916 तमे वर्षे राजस्थानप्रदेशस्य जयपुर-नगरस्य समीपे एकस्मिन् ग्रामे जात: अयं लेखक:, समाजसेवक:, तथा च सङ्घ-प्रचारक: आसीत्। तस्य पिता रेल-स्थानके “स्टेशन-मास्टर” रुपेण कार्यरत: आसीत्। तस्य माता धार्मिक-विचारिणी आसीत्। यदा स: बाल: आसीत् तदैव तस्य पिता दिवङ्गत: जात:। किञ्चित् समयान्तरं तस्य माता अपि दिवङ्गता जाता। स: अध्ययने बहु कुशाग्र-बुद्धिशील: आसीत्। दशम-कक्षायां स: सम्पूर्ण-राजस्थाने प्रथम-स्थानं प्राप्तवान्। कालान्तरे स: प्रशासकीय-परीक्षायाम् उत्तीर्ण: जात: किन्तु स: आङ्ग्ल-सर्वकारस्य अधीनतायां कार्यं न कृतवान्। 1937 तमे वर्षे यदा स: कानपुर-नगरे स्नातक-परीक्षां ददाति स्म तदा तस्य सहपाठी बालूजी-महाशब्दे-महोदयस्य प्रेरणया स: सङ्घस्य सम्पर्के आगत:। तदा हेगडेवार-महोदय: अपि कानपूर-नगरे एव आसीत्। अत: तस्य सानिध्ये स: सङ्घस्य प्रशिक्षणं प्राप्तवान्। सङ्घ-माध्यमेन एव स: राजनीति-क्षेत्रं प्रति आगतवान् l 1951 तमे वर्षे जनसङ्घस्य स्थापना जाता। डॉ. श्यामाप्रसादमुखर्जी तदा तस्य अध्यक्ष: आसीत् तथा च दीनदयाल-महोदय: महामन्त्री नियुक्त: जात: । 1967 तमवर्ष-पर्यन्तं स: महामन्त्री आसीत् l अनन्तरं स: अध्यक्ष: नियुक्त: जात:। किन्तु स: केवलं 43 दिवसपर्यन्तम् एव अध्यक्ष: आसीत्, यत: फरवरी 1968 तमे वर्षे मुगलसराय-नामके रेलस्थानके तस्य हत्या अभवत्l स: अस्माकं कृते आदर्श: अस्ति। अद्यापि सम्पूर्णदेशे तस्य नाम्ना शिक्षा-संस्थानानि, मार्गा:, प्रतिमा: सन्ति, ते तस्य स्मरणं कारयन्ति।