रानी-दुर्गावती
कालिञ्जस्य राज्ञ: कीर्तिसिंहचंदेलस्य गृहे 5 अक्टोबर 1524 तमे वर्षे जाता एषा भारतस्य प्रसिद्धा वीराङ्गना आसीत् या मध्यप्रदेशस्य गोण्डवानाक्षेत्रे शासनं कृतवती। तस्या: राज्यं गढ़मण्डला आसीत् यस्य केन्द्रं जाबलीपुरनगरम् आसीत्। तस्या: जन्म दुर्गाष्टमी पर्वणि अभवत् अतएव तस्या: नाम अपि दुर्गावती एव स्थापितम्। दुर्गा इव तस्या: गुणा: अपि साहस-शौर्य-तेजांसि इत्यादय: आसन्। तस्या: विवाह: गोण्डवाना राज्यस्य राज्ञ:सङ्ग्रामसिंहस्य पुत्रेण दलपतशाहेन सह अभवत्। दुर्भाग्यवशेन विवाहस्य चतुर्वषाणाम् अनन्तरं तस्या: पत्यु: मृत्यु: अभवत्। तस्या: त्रि-वर्षीय: नारायणनाम्ना एक: पुत्र: आसीत्। अत: सा पुत्रं सिंहासने उपवेश्य तस्य सरंक्षणार्थं शासनम् आरब्धवती। तस्या: राज्ये बह्वी उन्नति: अभवत् । मुगलशासक: अकबर: तस्या: राज्यस्य उपरि आक्रमणं कृतवान्। प्रथम-वारं तु सा तं पराजितं कृतवती किन्तु द्वितीय-वारं सा असफला जाता, तथापि साहसपुर्वकं सा युद्धं कुर्वती वीरगतिं प्राप्तवती च। जाबलीपुरनगरम् अद्यापि तस्या: वीरताया: प्रतीक: अस्ति। देशे बहुषु स्थानेषु तस्या: प्रतिमा: सन्ति। तस्या: नाम्ना एक: विश्वविद्यालय:, बहूनि शासकीय-भवनानि स्थापितानि सन्ति। सा शाश्वतं प्रसिद्धा बभूव l