“सुब्रह्मण्यभारती”
11 दिसम्बर 1882 तमे वर्षे तमिलनाडू-प्रदेशे एट्टपुरम् नामके स्थाने अभवत् एष: तमिल-भाषाया: महान् कवि:, पत्रकार:, स्वतंत्रता-संग्राम-सेनानी, समाज-सेवक: च आसीत्। तस्य आरंभिकी शिक्षा तमिलनाडू-प्रदेशे एव अभवत् । अनन्तरं स: वाराणसीत: अपि उच्च-शिक्षां प्राप्तवान्। स: बाल्यकालात् एव प्रतिभाशाली आसीत्। तस्य लेखन-शैलीं दृष्टवा एट्टपुरस्य राजा तस्मै ‘भारती’ इति संज्ञां दत्तवान्। यदा स: पंच-वर्षीय: आसीत् तदा तस्य माता दिवंगता। यदा स: पंचदशवर्षीय: आसीत्, तस्य विवाह: चैल्लमा नाम्ना सप्त-वर्षीयया कन्ययया सह अभवत्। आरंभे स: विभिन्न-समाचार-पत्रेषु यथा ‘द हिंदू’, ‘विजया’, ‘स्वदेशमित्रण’ इत्यादिषु पत्रकार-रुपेण कार्यं कृतवान्। स: चतुर्दश-भाषा: जानाति स्म, येषु तिस्त्र: भाषा: विदेशि-भाषा: आसन्। तमिल-भाषा तस्य प्रियतमा भाषा आसीत्। स: बहूनि गीतानि, काव्यानि तमिलभाषायां लिखितवान् , तेन गीतानि गीतानि तमिल-चलचित्रेषु अपि प्रसिद्धानि जातानि। स: उत्तम: समाजसेवक: अपि आसीत्। स: जातिगत-भेदभावस्य विरोधं कृतवान्। यदा स: वाराणसी-नगरे आसीत् तदा स: विभिन्न-स्वातंत्र्य-क्रांतिकारिभि: सह मिलितवान्। स: सक्रिय-रुपेण स्वतंत्रताया: कृते संघर्षं कृतवान्। स: समर्पित: देशभक्ति: आसीत्। एकदा लावण्य-नामक: गज: यस्मै स: प्रतिदिनं भोजनं ददाति स्म, स: सुब्रह्मण्यस्य उपरि आक्रमणं कृतवान्। तस्य स्वास्थ्यं पूर्वमेव असम्यक् आसीत्। 12 सितंबर 1921 तमे वर्षे यदा स: 38 वर्षीय: आसीत्, स: दिवंगत:। प्रतिवर्षं भारत-सर्वकार: हिन्दी-साहित्य-क्षेत्रे उत्तम-लेखकाय “सुब्रह्मण्य भारती-पुरस्कारस्य प्रदानं करोति। तमिलनाडू-प्रदेशे मरीना-समूद्र-तटे तस्य प्रतिमा अस्ति। भारतीय-संसदि अपि तस्य प्रतिमा शोभमाना अस्ति।