फरवरी मासस्य द्वादश-दिनाङ्के १८२४ तमे वर्षे गुजराय-प्रदेशस्य राजकोट-जनपदे टंकारा-ग्रामे जात: अयं भारतस्य महान् चिंतक: , समाजसेवक: तथा च आर्य-समाजस्य संस्थापक: आसीत्। स: वेद-प्रचारक: आसीत्। तस्य पितु: नाम करशनलालकी तिवारी तथा च मातु: नाम यशोदाबाई आसीत्। तस्य पिता न केवलं कर-संग्राहक: अपितु धनिक: , समृद्ध: तथा प्रभावशाली व्यक्ति अपि आसीत्। तस्य मूलनाम ‘मूलशंकर:’ आसीत्। स: बाल्यकालात् एव बहु अधिकं चिन्तयति स्म। यत् किमपि धार्मिक-पूजा-अनुष्ठान-इत्यादिकं भवति स्म,स: सर्वदा तेषां प्रयोजन-विषये चिंतयति स्म। अतएव स: बाल्यकालात् एव स्वविवेकेन निर्णयं स्वीकर्तुं समर्थ: आसीत्। तस्य एतादृश: स्वभाव: दृष्टवा गृहस्य जाना: चिंतां कुर्वन्ति स्म, अतएव ते किशोरावस्थायाम् एव तस्य विवाहं कर्तुं निश्चितवन्त:।
किन्तु दयानन्दस्य चित्त: तु ग्रहस्थाश्रमे आसीत् एव न। स: शीघ्रमेव सत्यस्य अन्वेषणाय ग्रहात् बहि: निर्गतवान्। स: गुरु विरजानन्दस्य समीपं गत्वा , तस्मात् शिक्षां प्राप्तवान्। अनन्तरं स: बहुषु स्थानेषु शास्त्रार्थं कृतवान्। कोलकाता-नगरे स: केशवचन्द्रसेन: तथा च देवेन्द्रनाथ-ठाकुर: इत्ययो: संपर्के आगतवान्। स: संवत् १९३२ ( ईसवी 1875) तमे वर्षे मुम्बई-नगरस्य गिरगांव-क्षेत्रे आर्यसमाजस्य स्थापनां कृतवान्। आर्यसमाजस्य माध्यमेन स: वेदानां वृहत् रुपेण प्रचारम् आरब्धवान्। स: धाराप्रवाह-संस्कृतं वदति स्म।।
स: समाजे व्याप्ता: कुरुतिनां खण्डनं कृतवान्। स: स्त्री-शिक्षाया: कृते अपि महत् प्रयास: कृतवान्। स: बाल-विवाह: , सती-प्रथा, मूर्तिपूजा, इत्येषां विरोधं कृतवान्। स: देशभक्त: अपि आसीत्। पूर्ण-स्वराज्यस्य जयघोष: सर्वप्रथमं स: एव कृतवान् आसीत्। १८५७ तमे वर्षे स्वतंत्रताया: प्रथम-आन्दोलने अपि योजना-निर्माणाय तस्य भूमिका आसीत्। एतदर्थं स: आंग्लशासकानाम् अपि शत्रु: आसीत्। अक्टोबर-मासस्य त्रिंशत् दिनाङ्के १८८३ तमे वर्षे स: महाराज-जसवंतसिंहस्य आमंत्रणस्य फलस्वरुपं स: जोधपूर-नगरं गतवान्। किंतु तत्र कोअपि तस्मै भोजने विषं दत्तवान्। एतेन तस्य स्वास्थम् असमीचीनं जातम्।
तं चिकित्सालये अपि प्रविष्टं कारितम्, किंतु तस्य प्राणा: न रक्षिता:। एवं कथ्यते यत् तस्य वधस्य षडयंत्र: आंग्लजना: एव रचितवन्त:। स: न केवलं समाजसेवक: अपितु उत्तम: लेखक: अपि आसीत्। तस्य रचना ‘सत्यार्थप्रकाश’ ईदानीम् अपि सर्वेषां मार्गदर्शनं करोति। ‘ऋग्वेदादिभाष्यभूमिका’ अपि तस्य उत्तमा रचना आसीत्। तस्य सम्पूर्ण-जीवनं वेदानां प्रचारार्थं , लोककल्याणार्थम् च आसीत्। आर्यसमाजस्य कार्यम् अद्यापि तस्य सिद्धांत-अनुसारेण एव चलति। स: सनातम-धर्मस्य प्रवर्तक: अपि कथ्यते।
तं शत् शत् नमन्।