“स्वामी-विवेकानन्द:”
1863 तमे वर्षे जानुवरी 12 कोल्कता-नगरे जात: अयं भारतस्य प्रभावशाली आध्यात्मिक-गुरु: आसीत्। तस्य वास्तविकं नाम नरेन्द्रनाथ: दत्त: आसीत्। तस्य पिता विश्वनाथ: दत्त: कोल्कता न्यायालयस्य प्रसिद्ध: अभिभाषक: आसीत्। तस्य माता भुवनेश्वरी देवी धर्मवत्सला आसीत्। 1884 तमे वर्षे स: कला-स्नातकस्य शिक्षां प्राप्तवान्। यदा स: पञ्चविंशति: वर्षीय: आसीत् तदा स: गृहं त्यक्तवान् तथा च सन्यासी अभवत्। स: स्वामिन: रामकृष्ण-परमहंसत: अति-प्रभावित: आसीत्। अत: स: तं गुरु-रुपेण अङ्गीकृतवान्। स: उत्कृष्ट: समाजसेवक: अपि आसीत्। सेवा तस्य जीवनस्य मुख्यम् अङ्गं आसीत्। रामकृष्ण-मिशन इति नाम्ना एकस्या: संस्थाया: आरम्भं सः कृतवान्। या अद्यापि सम्पूर्ण-विश्वे समाज-सेवाया: कार्यं करोति। स: भारतवर्षम् एवं न विश्वस्य अनेक-देशानां यथा अमेरिका,आङ्ग्लदेश,फ्रान्स् जापान् इत्यादीनां यात्रां कृत्वा भारतीय-संस्कृत्या: प्रचारं कृतवान्। 1893 तमे वर्षे षिकागो नगरे सर्वधर्म-सम्मेलने स: भारतस्य प्रतिनिधत्वं कृतवान्। यदा स: तत्र श्रोतॄन् ” भगिन्य: भ्रातरश्च इति सम्बोधितवान् तदा सम्पूर्ण-सभागारस्य वातावरणं परिवर्तितं जातम्। जना: मन्त्र मुग्धा: भूत्वा तस्य पूर्णं सम्भाषणं श्रुतवन्त:। तस्य अस्मिन् एव प्रवासे तत्र एका विदेशिमहिला यां विवेकानन्द: ‘भगिनी-निवेदीता’ इति नाम्ना सम्बोधितवान् , तस्य प्रिय-शिष्या अभवत् तथा च तेन स: भारतं प्रति आगत्य भारतदेशे महिलानाम् उत्थानस्य कृते कार्यं कृतवती। तस्य व्यक्तित्वेन जना: तं प्रति आकृष्टा: भवन्ति स्म। 1902 तमे वर्षे जुलाई 4 यदा स: केवलं 39 वर्षीय: आसीत्, तदा स: प्राणान् त्यक्तवान्। तस्य जीवनम् अद्यापि यूवानां कृते आदर्श: अस्ति। सम्पूर्ण-देशे तस्य जन्मदिवसस्य अवसरे राष्ट्रिय-युव-दिवसस्य आयोजनं भवति।
====================================
🌻 स्वामी विवेकानन्दः 🌻
सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ट्यधिकशततमे(१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्। तस्य पिता श्री विश्वनाथदत्तमहोदय:। पूर्वं तस्य नाम नरेन्द्रनाथदत्तः इति आसीत्। एषः उत्साही, हास्यप्रियः, करुणापरः च आसीत्। नरेन्द्रः बाल्ये कपीन्, मयूरान्, कपोतान् च पालयति स्म। एषः पितुः हयान् अपि रक्षति स्म। अध्ययनपटुरयं नरेन्द्रः शास्त्रीयसङ्गीतस्य अभ्यासं करोति स्म। प्रतिदिनं व्यायामं करोति स्म। ध्यानसिद्धः अयं भ्रूमध्ये ज्योतिरेकं पश्यति स्म। ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान्? इति। ईश्वरं ज्ञातुं पाश्चात्यदर्शनस्य भारतीयदर्शनस्य च गभीरम् अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातकपदवीम् अधिगतवान्। अस्मिन्नेव समये दैवयोगात् दक्षिणेश्वरस्थे कालीमन्दिरे परमहंसस्य रामकृष्णदेवस्य दर्शनं तेन प्राप्तम्। रामकृष्णमुद्दिश्य नरेन्द्रः पृष्टवान् ‘किं भवान् ईश्वरं दृष्टवान् ?’इति। ‘आम्। त्वामिव ईश्वरमपि पश्यामि’ इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः नरेन्द्रस्य अध्यात्म-गुरुः अभवत्। सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्दः इति अभवत्। अयं च नरेन्द्रः भारतभ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादशत(१८९३)तमे वर्षे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मसभायां भारतस्य गौरवं प्रतिष्ठापितवान् । तत्र सभास्थले विविध धर्मग्रन्थाः एकस्य उपरि एकः इति क्रमेण स्थापिताः आसन् । संयोगवशात् श्रीमद्भगवद्गीता सर्वेषां पुस्तकानाम् अधः आसीत् । एकः अमेरिकावासी उपहासपूर्वकम् अवदत् – ‘स्वामिन्। भवतां गीता सर्वेषां धर्मग्रन्थानाम् अधः वर्तते’ इति । प्रत्युत्पन्नमतिः स्वामी विवेकानन्दः हसन्नेव प्रत्यवदत् – ‘आम् । सत्यम्। आधारशिला तु अधः एव भवति। सा यदि बहिः स्वीक्रियेत तर्हि समग्रम् अधः पतिष्यति’ इति। विदेशेषु वेदान्तधर्मस्य प्रचारं कृत्वा भारतं प्रत्यागतः सः देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा, स्वास्थ्यरक्षा, स्त्रीशिक्षा, आधुनिकप्रौद्योगिकी प्रभृतिषु क्षेत्रेषु असाधारणं कार्यं कर्तुं ‘रामकृष्णमिशन्’ इति संस्थां संस्थाप्य जनेषु शक्तिजागरणं कृतवान्। स्वामिविवेकानन्दस्य अयं सन्देशः अद्यापि भारतीयान् प्रेरयति – “उत्तिष्ठत, जाग्रत, प्राप्य वरान्निबोधत।
====================