उज्जयिनीनगर्या: समीपस्थे कपित्थनामकग्रामे जात: एष: महापुरुष: राज्ञ: विक्रमादित्यस्य नवरत्नेषु अन्यतम: आसीत्। तस्य पिता आदित्यदास: सूर्योपासक: आसीत्, तस्मात् एव वराहमिहिर: ज्योतिर्विद्यां प्राप्तवान्। स: न केवलं ज्योतिश्शास्त्री अपितु स: खगोलशास्त्री, गणितज्ञ: अपि आसीत्। कुसुमपुरं ( पटना) गत्वा स: आर्यभट्टेन सह मिलितवान्। तदा आरभ्य तस्य रुचि: एतेषु विषयेषु प्रवृद्धा अभवत्। तेन लिखितानि त्रीणि पुस्तकानि बृहज्जातक , बृहत्संहिता पञ्चसिद्धान्तिका च अतीव प्रसिद्धानि सन्ति। त्रिकोणमिति इत्यस्य व्याख्याम् अपि स: कृतवान्। स: वेदानां ज्ञाता आसीत्। तस्य प्रयास: आसीत् यत् तस्य आविष्कारा: जनहितार्थं भवेयु:।।