28 मई 1883 तमे वर्षे नाशिकनगरे जात: अयं भारतस्य समर्पित: स्वतन्त्रतासैनिक:, कवि:, लेखक:, तथा च प्रसिद्ध: राजनीतिज्ञ: आसीत्। स: राजनीतितदलं हिन्दु-महासभाया: नेता आसीत्। स: भारतं हिन्दु-राष्ट्रं कर्तुं प्रयासं कृतवान्। महात्मागांधी: धर्म-निरपेक्ष: आसीत्। अत: तेन स: तस्य सर्वदा मतभेद: एव आसीत्। स: हिन्दु-महासभाया: षट् वारं अध्यक्षरुपेण चयनित:। स: इसराइलदेशे अपि यहुदि-धर्मस्य कृते फिलिस्तीनदेशस्य विरोधे कार्यं कृतवान्। स: भारतदेशस्य कृते ध्वज-द्वयम् दत्तवान् – तिरंगा, भगवाध्वज: च। स: सर्वदा अखण्ड-भारतम् इच्छति स्म। स: 38 हिन्दी-मराठी पुस्तकान् लिखितवान्। तस्य हिन्दु-विचारधारा कारणात् नेहरु: तस्मै महत्वं न दत्तवान् किन्तु भाजपासर्वकार: तस्य कृते विशेष-सम्मानं दत्तवान्। पोर्ट-ब्लेयरकारागारे स: बहुकालात् जीवनं व्यतीतं कृतवान् । अत: पोर्ट-ब्लेयरस्य विमानस्थानकस्य नाम “वीर-सावरकर-अंतर्राष्ट्रीय-हवाई-हड्डा” इति स्थापितम्। तस्य जीवमचरित्रं दार्शयितुंं चलचित्राणि अपि र्निमितानि। 26 फरवरी 1966 तमे वर्षे स: दिवंगत: जात: किन्तु तस्य हिन्दू-विचारान् अधुना अपि जना: आचरन्ति।