आदिशाङ्कराचार्य:
केरलप्रदेशे जात: अयं प्राचीनभारतस्य महान् दार्शनिक: धर्मप्रवर्तक: च आसीत्। यदा षड् वर्षीय: आसीत् तदा एव स: प्रकाण्ड पण्डित: अभवत् तथा च यदा अष्टवर्षीय: जातः तदैव स: सन्यासं गृहीतवान्। चतुर्वेदानां ज्ञाता स: निर्गुणब्रह्म तथा च सगुणब्रह्म द्वयो: व्याख्यां कृतवान्। तस्य ज्ञानम् अति-उच्चस्तरीयम् आसीत्। एतदर्थं स: स्वल्पसमये एव सर्वत्र प्रसिद्ध: अभवत्। तस्य कीर्ति: सर्वत्र व्याप्ता अभवत्। भारतीय-संस्कृत्या: विकासे तथा संरक्षणे तस्य महत् योगदानम् अस्ति । स: सम्पूर्णभारतं एकेन सूत्रेण बध्नातुं प्रयासं कृतवान्। तदर्थं स: भारतभ्रमणं कृत्वा विभिन्नस्थानेषु चतुर्मठानां स्थापनां कृतवान्। ये मठा: अद्यापि सन्ति तेषां नामानि- ज्योर्तिमठ: द्वारिकामठ:, शृंगेरीमठ: तथा च गोवर्द्धनमठ:। स: अद्यापि विश्वस्य कृते आदर्श: अस्ति।सनातनधर्मं सम्यक् रुपेण जनानां जीवने सः स्थापितवान्। किन्तु अल्पायुः स: द्वात्रिंशद्वर्षीय: (32) एव ब्रह्मलीन: अभवत्।