खुदिराम-बोस:
दिसंबरमासस्य तृतीय दिनाङ्के 1889 तमे वर्षे बङ्गालप्रदेशस्य मिडनापुरनगरे जात: अयं भारतस्य अति-अल्पायु: स्वातन्त्र्यसेनानी आसीत् । स: भारतस्य स्वतन्त्रताया: कृते एतावान् उत्तेजित: आसीत् यत् स: यदा नव-कक्षायाम् आसीत्, तदैव स्वदेशी-आन्दोलने भागं स्वीकृतवान्। विद्यालयं त्यक्त्वा स: रिवोल्यूशनरी-पार्टी-इत्यस्य सदस्य: अभवत् तथा च वन्देमातरम-पैम्फलेट वितरितुं महत्वपूर्ण-भूमिकां कृतवान्। बङ्गाल-विभाजनस्य विरोधे अपि स: आन्दोलने भागं गृहीतवान्। स: बहु-वारं आङ्ग्लसैनिकानाम् उपरि आक्रमणं कृतवान्। किन्तु दुर्भाग्यपूर्णं तस्य परिणाम: निष्फल: जात:। एकदा स: न्यायाधीश-किन्जफोर्डस्य वधं कर्तुं योजनां कृतवान्। एतेन न्यायाधीशेन भारतीय-स्वतन्त्रता-सैनिकानां कृते बहु दण्ड: दत्त: । अत: एतं न्यायाधीशं मारयितुं दीर्घा योजना निर्मिता l प्रफुल्लकुमार-चाकी तथा च खुदीरामबोस: इत्येतयो: चयनं एतं न्यायाधीशं मारयितुं स्वतन्त्रता-सैनिकानां दलेन कृतम्। अत्रापि दुर्भाग्यपूर्णं द्वयो: आङ्ग्लमहिलयो: मृत्यु: जात: किन्तु स: न्यायाधीश: सुरक्षित: आसीत्। किन्तु इदानीं खुदीराम-बोस: तथा च प्रफुल्लकुमार: आङ्ग्लसैनिकानां मध्ये आसीत्। प्रफुल्लकुमार: झटिति आत्महत्यां कृतवान् किन्तु खुदीराम-बोसाय आङ्ग्लसर्वकार: मृत्यु-दण्डं दत्तवान्। तदा स: केवलं 18 वर्षीय: आसीत् तथापि स: हंसन् स्वतन्त्रताया: स्वबलिदानं दत्तवान्। तस्य मृत्यो: अनन्तरं स: सम्पूर्णदेशे अत्यन्त-लोकप्रिय: अभवत्। देशे स्वतन्त्रताया: कृते प्रयास: इतोऽपि अधिक: वर्धित:। स: अद्यापि अस्माकं कृते प्रेरणा-स्रोत: अस्ति।